________________
३६
[ कर्णिकासमन्विता उपदेशमाला । गाथा - ३ ] इत्थं मिथ्यात्वधर्मोक्तेस्तच्छिष्यः कपिलोऽभवत् । स च सागरकोटीनां कोटीं संसारमार्जयत् ॥५८॥ अनालोच्य मरीचिस्तद्रचितानशनो मृतः । दशतोयधितुल्यायुर्देवोऽभूद् ब्रह्मलोकभूः ॥५९॥ आसुर्यादीनसौ शिष्यान् कृत्वा स्वाचारचारिणः । विपद्य ब्रह्मलोकेऽभूत्कपिलोप्यमरः किल ॥६०॥ स स्वां जानन् जनिं पूर्वामुर्व्वीमुत्तीर्य मोहतः । स्वयं कृतं मतं साङ्ख्यमासुर्यादीनबोधयत् ॥६१॥ तदाम्नायान्मतं साङ्ख्यं तदाद्युर्व्यामवर्त्तत । कातरा नितरां धर्मं सुखसाध्यं हि तन्वते ॥६२॥ च्युत्वा मरीचिजीवस्तु कौशिकाख्योऽजनि द्विजः । अशीतिपूर्वलक्षायुः कोल्लाके सन्निवेशने ॥६३॥ धनार्जनाशया हिंस्रो विषयी सोऽचरच्चिरम् । अन्ते त्रिदण्डी भूत्वा च मृत्वाऽभ्राम्यद् भवान् बहून् ॥६४॥ स्थूणाख्ये सन्निवेशेऽथ पुष्पमित्रोऽभवद् द्विजः । भेजे च पूर्वलक्षद्वासप्तत्यायुस्त्रिदण्डिताम् ॥६५॥ मृत्वा सौधर्मकल्पेऽथ मध्यमायुः सुरोऽभवत् । च्युत्वाऽग्निद्योत इत्यासीद् द्विजश्चैत्ये निवेशने ॥६६॥ सत्रिदण्डी चतुःषष्टिपूर्वलक्षस्थितिः स्थितः । मृत्वा ततोऽसावीशाने मध्यायुर्विबुधोऽभवत् ॥६७॥ च्युत्वाऽभूदग्निभूत्याख्यो मन्दिरे सन्निवेशने । षट्पञ्चाशत्पूर्वलक्षायुष्को विप्रस्त्रिदण्ड्यसौ ॥६८॥ मृत्वा सनत्कुमारेऽभूत् सुरोऽयं मध्यमस्थितिः । च्युत्वा च भारद्वाजाख्यः श्वेतव्यां पूर्यभूद् द्विजः ॥६९॥ पूर्वलक्षचतुश्चत्वारिंशदायुःस्थितिः स तु । प्रव्रज्य तुर्यकल्पेऽभूत् मध्यमायुः सुधाशनः ॥७०|| सोऽभूद् भ्रान्त्वा भवं राजगृहेऽथ स्थावरो द्विजः । पारिव्राज्यं चतुस्त्रिंशत्पूर्वलक्षादे ॥७१॥ 15 स ब्रह्मलोकमध्यास्त मध्यायुर्विबुधस्ततः । कर्मपूरी भवान् भूरीनभ्राम्यच्च ततश्च्युतः ॥७२॥ इतश्च विश्वनन्दीति राजा राजगृहेऽभवत् । अभूद् विशाखनन्दीति नन्दनोऽस्य प्रियङ्गुभूः ॥७३॥ बभूव भूपतेस्तस्याऽवरजो यौवराज्यभाक् । विशाखभूतिरित्याख्यो धारिणीरमणीप्रियः ॥७४॥ मरीचिजीव: प्रक्षीणाशुभकर्मवशादभूत् । विशाखभूतेर्धारिण्यां विश्वभूतिः सुतोऽद्भुतः ॥७५॥ उद्यौवनो वने पुष्पकरण्डे विश्वमण्डनः । विश्वभूतिः कदाप्येष रेमे रामाकुलाकुलः ॥७६॥ विशन्विशाखनन्दीह रिरंसुर्नृपनन्दनः । श्वेव श्राद्धक्षणेऽवारि द्वारि दौवारिकैस्तदा ॥७७॥ तन्मत्वा पुष्पदासीभ्यः प्रियङ्गुर्नृपवल्लभा । कुपिता नृपतेराख्यत् परं पुत्रपराभवम् ॥७८॥ प्रियं प्रियाया निर्मातुं मायावी नृपतिस्ततः । रिपुभूपतिभीपात्रं यात्राभेरीमवादयत् ॥७९॥ वीरः पुरुषसिंहाख्य उद्वृत्तः सिंहपौरुषः । तज्जयाय प्रेयामीति सभायामवदच्च सः ॥८०॥ ऋजुः श्रुत्वेदमागत्य भक्त्या भूपं निषिध्य च । ययौ पुरुषसिंहाय विश्वभूतिर्बलोद्भः ॥८१॥
तं दृष्ट्वाऽऽज्ञावशं प्राप्तो वने भूयः करण्डके । विशाखनन्दी मध्येऽस्तीत्युक्तो द्वास्थैर्बहिः स्थितः ॥८२॥
5
10
20
25
१. धारणी K, D। २ ० प्रयास्यामि सभायामिति चाभ्यधात् । C |
टि. 1. उद्धत इत्यर्थः ।