________________
३४
[ कणिकासमन्विता उपदेशमाला । गाथा - ३] तत्कृते भृतकैः स्वादवती रसवती तदा । आनिन्ये मण्डपाभस्य तले कस्यापि शाखिनः ॥८॥ नयसारस्तदा दध्यौ धर्म आजन्म यः कृतः । ममारण्येऽपि तेनाऽद्य मा भूदनतिथिस्तिथिः ॥९॥ एवं चिन्तयतस्तस्यारण्येऽप्यसुलभातिथौ । धर्म एवातिथीभूतः साक्षादागान्मुनिव्रजः ॥१०॥ क्षुधितान् तृषितान् श्रान्तान्मुनीनालोक्य तानसौ । मुमुदे च ववन्दे च दुःस्थः कल्पतरूनिव ॥११॥ कुतो यूयमिहाटव्यामिति पृष्टाश्च तेन ते । आहुः सहैव सार्थेन स्थानतः प्रस्थिता वयम् ॥१२॥ सार्थो भिक्षार्थमस्मासु ग्रामान्तःस्थेषु सोऽचलत् । अनात्तभिक्षा एवानुयान्तोऽत्र पतिता वयम् ॥१३॥ श्रुत्वेत्यसौ कृती सार्थं निन्दन् पुण्यं स्तुवन् निजम् । स्वार्थे सज्जीकृतैरन्नपानैस्तान् प्रत्यलाभयत् ॥१४॥ तान्मुनीन् विधिवद् भुक्तान् ग्रामेशः कृतभोजन: । पुर्या दर्शयितुं मार्गं गत्वा सममचालयत् ॥१५॥ दर्शिते पू:पथे स्थित्वा साधवस्ते तरोरधः । ग्रामवित्तस्य तस्याख्यन्धर्मं धीरः स चाददे ॥ १६ ॥ अटवीपातिनां तेषां तेनादर्शि पुरीपथः । भवाटवीजुषो मुक्तिपुरीमार्गस्तु तस्य तैः ॥१७॥ स च ते च मिथोदिष्टतत्तत्पथविहारिणः । जनमानन्दयामासुर्दयाभासुरचेतसः ॥१८॥ सोऽभ्यस्यन् कर्ममर्माविद्धर्मनिर्माणमन्वहम् । सम्यक्त्वं पालयन् कालं निनाय ग्रामनायकः ॥१९॥ साधिताराधनः सोऽन्ते स्मृतपञ्चनमस्कृतिः । पल्योपमायुः सौधर्मे नयसारः सुरोऽभवत् ॥२०॥ च्युत्वाऽथ सोऽस्मिन् भरते भरतस्यादिचक्रिणः । ऋषभस्वामिपुत्रस्य पुत्रोऽयोध्यापतेरभूत् ॥२१॥ 15 मरीचिनामा सद्धामा पितृभ्रात्रादिभिः सह । गतः स प्रथमे व्याख्यावसरे वृषभप्रभोः ||२२|| महिमानं सुरैस्तन्यमानं प्रेक्ष्य प्रभोरसौ । धर्मं श्रुत्वा च सम्यक्त्वयुतधीर्व्रतमाददे ॥२३॥ स्थविराणां पुरोऽङ्गानि पठन् सोऽङ्गेऽपि निस्पृहः । सम्यक्ज्ञातमहाधर्मो व्यहरत्स्वामिना सह ॥२४॥ ग्रीष्मेऽन्तर्बहिरूर्ध्वाधस्तापव्याप्ते कदाप्यसौ । स्वेदार्द्रस्तर्षितो दध्यौ चारित्रावरणोदयात् ॥२५॥
धीरधार्यं क्षमो धर्तुं नाहं व्रतमतः परम् । महाधीरकुलोत्पन्नः क्षुद्रो लज्जे त्यजन्नपि ॥२६॥ सम्प्रत्येनमुपायं तत्कुर्वे दुर्वेधसा जितः । येन स्याद् व्रतमप्यङ्गीकृतमङ्गेऽपि न क्लमः ॥२७॥ सर्वत्र साधवः सर्वे त्रिदण्डविरता मताः । त्रिदण्डीदण्डितस्यास्तु त्रिदण्डी मम लक्ष्म तत् ॥२८॥ अमी लुञ्चितमूर्द्धानो लोचकष्टाक्षमस्य । क्षुरेण मुण्डिते मुण्डे शिखैकाऽस्तु कलङ्कवत् ॥२९॥ ते नि:किञ्चनताभूषा भूषाऽऽस्तां मुद्रिकादि मे । सुगन्धयोऽमी शीलेन पुण्ड्रैः सौगन्ध्यमस्तु मे ॥३०॥ ते शुक्लवस्त्रा वासोऽस्तु कषायं मे कषायिणः । ते मुक्तिदर्शिनो नाहमित्यूर्ध्वं छत्रमस्तु मे ॥३१॥
चरन्ति चरणत्राणं सत्त्वं ते दधतः सदा । चार्मणं चरणत्राणं तद्वियुक्तस्य मेऽस्तु तत् ॥३२॥
5
10
20
25
१. तत्पथप्रविहारिण P । २. ० व्याप्तः P, K, A
टि. 1. नि: किञ्चनता एव भूषा येषां ते । 2. चरणत्राणं संयमस्य रक्षणमित्यर्थः । 3. चरणयोः त्राणमित्यर्थः । 4. सत्त्वेन वियुक्तस्य ।