SearchBrowseAboutContactDonate
Page Preview
Page 76
Loading...
Download File
Download File
Page Text
________________ ३३ 10 [कर्णिकासमन्विता उपदेशमाला । गाथा-३] अप्राप्तपूर्वावाजन्म चरणौ प्राप्य चक्रिणः । मार्गभूर्दुर्भगेव स्त्री रक्ताऽभूत् क्षरताऽसृजा ॥६५९॥ अशक्तेऽपि सहागन्तुं छत्रधारिणि चक्रिणः । अपनिन्ये मनस्तापस्तपनातपवेदनाम् ॥६६०॥ अथाष्टापदमारूढस्तं तथावस्थितं प्रभुम् । अपश्यत् प्रसभोन्मीलद्बाष्पाविलविलोचनः ॥६६१।। स प्रणम्याभवद् यावदुपास्तिन्यस्तमानसः । अपश्यत् तावदायातान् सर्वान् गीर्वाणनायकान् ॥६६२॥ भक्तिशोकभराभोगभङ्गीकृतकन्धरः । तैः समं शमिनामीशमुपासामासिवानसौ ॥६६३।। माघकृष्णत्रयोदश्यां पूर्वाह्नेऽभीचिगे विधौ । समाहितमनाः काययोगे स्थित्वाऽथ बादरे ॥६६४॥ अरौत्सीद् बादरौ शब्दचित्तयोगौ जगद्गुरुः । कायस्य बादरयोगं सूक्ष्मेणैव रुरोध सः ॥६६५।। [युग्मम्] तेनैव वाङ्मनोयोगौ सूक्ष्मौ रुद्ध्वा तमप्यथ । तार्तीयीकं सितध्यानं सूक्ष्मक्रियमसाधयत् ॥६६६॥ अथोच्छिन्नक्रिये तुर्ये शैलेशी समशिश्रियत् । पञ्चहूस्वाक्षरोच्चारकालमानां जिनाग्रणीः ॥६६७॥ प्रक्षीणशेषकर्मोघः परित्यक्ततनुत्रिकः । स्वभावसिद्धोर्ध्वगतिर्चालावदृजुनाध्वना ॥६६८॥ अस्पृष्टाकाशगमनः सिद्धानन्तचतुष्टयः । एकेन समयेनाऽऽप मुक्तिलक्ष्मीवतंसताम् ॥६६९॥ [युग्मम्] क्षपकश्रेणिमारुह्य परेऽपि परमर्षयः । तदा दशसहस्राणि मुक्तिं प्रभुवदभ्ययुः ॥६७०॥ प्रथममयमुदारां प्राप्य सम्यक्त्वलक्ष्मीम् , तदनु मनुजवर्गस्वर्गसाम्राज्यलक्ष्मीम् । अथ निरुपमसम्यक्ज्ञानचारित्रलक्ष्मीम् , त्रिभुवनपतिराप श्रेयसी शर्मलक्ष्मीम् ॥६७१।। [मालिनीवृत्तम्] एतेन श्रीऋषभनाथचरित्रं दिग्मात्रकीर्तनेन 'संवच्छरमुसभजिणो' त्ति प्रपञ्चितम् । इति श्रीऋषभनाथचरितम् ॥ सम्प्रति 'छम्मासा वद्धमाणजिणचंदो'त्ति श्रीवीरचरितं संक्षिप्तकीर्तनेन प्रकाश्यते । तथाहि [श्रीवीरजिनचरितम् ॥] वीरः श्रियेऽस्तु व्याख्यासु यद्दन्तकिरणाङ्कराः । दधुमौलिषु नम्राणां मङ्गल्यामक्षतश्रियम् ॥१॥ जम्बूद्वीपे प्रतीचीनविदेहैकविभूषणे । जयन्तीति महावप्रसंज्ञेऽस्ति विजये पुरी ॥२॥ अखण्डोद्दण्डदोर्दण्डकण्डूतिश्चण्डविक्रमः । शत्रुमर्दन इत्यासीत् तत्र पार्थिवपुङ्गवः ॥३॥ तस्य पृथ्वीप्रतिष्ठाननामग्रामनियोगभृत् । नयसारोऽभवत्साधुसङ्गहीनोऽपि धर्मधीः ॥४॥ दानश्रद्धाविशुद्धान्त:करणः करुणानिधिः । उपकारी प्रियगुणः स सदासीत् प्रियंवदः ॥५॥ सोऽन्यदा चारुदारुभ्यो राजशासनगौरवात् । सपाथेयः सशकटश्रेणिराट महाटवीम् ॥६॥ तं वृक्षच्छेदनोद्युक्तं युक्तं वृक्षालयोऽनलः । क्षुन्मिषोऽतीतपन्मध्ये मध्याह्नेऽर्कमिषो बहिः ॥७॥ 15 20 25 १. वृक्षोद्भवोबल: CI टि. 1. मन:ताप:-कर्तरि प्रथमा । 2. ०श्रेणिः आट महाटवीम् । 3. अतीतपत्-'तप्'धातोः प्रेरकाद्यतनी तृ.पु.एकवचनम्। 4. मध्ये-उदरमध्ये, इत्यर्थः ।
SR No.022274
Book TitleUpdeshmala
Original Sutra AuthorN/A
AuthorKirtiyashsuri
PublisherSanmarg Prakashan
Publication Year2013
Total Pages564
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy