________________
३०
10
[कर्णिकासमन्विता उपदेशमाला । गाथा-३.] अथाऽदिशज्जिनाधीशो भरतक्ष्मापतिं प्रति । भोगानभिलषन्त्येते किमभङ्गरसङ्गराः ॥५८२॥ आनाय्य न्यायवित् क्षोणीपती रसवतीमथ । हेतवे निजबन्धूनामन्धूनां प्रशमाम्भसः ॥५८३॥ विज्ञो विज्ञपयामास सानन्दो नाभिनन्दनम् । भोजनायादिश स्वामिन् ! शमिनो बान्धवानिति ॥५८४॥ युग्मम् । आदिदेशाऽथ तीर्थेश: कारितं कल्पते न यत् । भुञ्जते तत्कुतो ज्ञानबन्धुरास्तव बन्धवः ॥५८५॥ पुनर्विज्ञपयामास नृपस्तहि जगत्प्रभो ! । स्वामिन्नकारिताऽन्नाय प्रेष्यन्तां मद्गृहानमी ॥५८६॥ तमादिदेश तीर्थेशो यथार्थमथ पार्थिवम् । राजन्न कल्पते राजपिण्ड: शमभृतामिति ॥५८७॥ नरेन्द्रेऽस्मिन् जिनेन्द्रेण निषिद्धे सर्वथेत्यथ । पराभवभवन्मानम्लानिश्यामलितानने ॥५८८॥ माऽसौ खेदस्य पात्रं भूदित्यवेत्य मरुत्वता । अवग्रहविदा पृष्टः स्पष्टमूचे जगद्गुरुः ॥५८९॥ युग्मम् ॥ शक्रस्य चक्रिणो राज्ञः स्थानेशस्य गुरोरिति । पञ्चधावग्रहो भावात् पञ्चानामपि पुण्यकृत् ॥५९०॥ अथ शक्रः प्रणम्याह प्रभो ! क्षेत्रेऽत्र भारते । मया वासाय साधूनां प्रदत्तोऽयमवग्रहः ॥५९१॥ आकर्ण्य भरतोऽपीति प्रीतो नत्वा जगद्गुरुम् । अनुजज्ञे निवासाय साधूनां भारती भुवम् ॥५९२॥ अथाऽपृच्छन्महीभत धुभद्रं ससम्मदः । देयं कस्यान्नमानीतमिदमेवं निवेद्यताम् ॥५९३।। गुणाधिकेषु कर्त्तव्या पूजेत्युक्ते बिडौजसा । साधून् विना गुणी कोऽस्ति मत्तोऽपीति व्यचिन्तयत् ॥५९४॥ ज्ञातं सन्तितरां सन्तः श्रावका मद्गुणाधिकाः । तेभ्यः पूजा विधेयेति निश्चयं भरतो व्यधात् ॥५९५।। अथ प्रणम्य तीर्थेशं ययौ दिवि दिवस्पतिः । भरतस्तु विनीतायां पुर्यां धुर्यो मनस्विनाम् ॥५९६॥ अन्यतो विजहाराथ प्रभुरष्टापदाचलात् । निर्दम्भं लम्भयन् लक्ष्मी पुराम्भोजानि भानुवत् ॥५९७॥ भरतोऽपि रतो धर्मे श्राद्धानाहूय भूरिशः । इदं जगाद भोक्तव्यं भवद्भिर्मम मन्दिरे ॥५९८॥ क्रियासु कृषिमुख्यासु कार्यं चेतोऽपि न क्वचित् । भवद्भिः केवलं भाव्यं धर्मकर्मैककर्मठैः ॥५९९॥ इदं च पाठ्यं नि:शाठ्यं भोजनान्ते मदग्रतः । जितो भवान् वर्द्धते भीस्ततो मा हन मा हन ॥६००॥ मत्वेदमथ ते श्राद्धा भवने तस्य भुञ्जते । पठन्ति च वचस्तत्ते सम्मोहगरगारुडम् ॥६०१॥ प्रमादी मेदिनीशोऽपि मग्नो रतिमहानदे । नित्यमाकर्ण्य तद्वाक्यं विचिन्तयति किञ्चन ॥६०२॥ अहं केन जितो ? ज्ञातं कषायैस्तेभ्य एव भीः । वर्द्धते दुर्द्धरा तेन न घात्याः प्राणिनो मया ॥६०३॥ नित्यं ते स्मारयन्तीति नीतिशक्राय चक्रिणे । विरागसागरोल्लासनिशाकरनिभं वचः ॥६०४॥
प्रमादपादपाकीर्णे तस्मिन् भरतभूभृति । तद्वाक्यैः पवमानस्तैर्धर्मध्यानानलोऽज्वलत् ॥६०५॥ 25 श्राद्धाश्राद्धविवेकाज्ञैः सूदैविज्ञपितो नृपः । चक्रेऽणुगुणशिक्षाख्यव्रतैस्तेषां परीक्षणम् ॥६०६।।
१. ०आदिदेश स० P। २. पठमानै० - C, A | ३. विवेकज्ञैः K, C, D, PI टि. 1. अभङ्गुरसङ्गराः अभङ्गुरः = मोक्षः तमवाप्तुं सङ्गरः = प्रतिज्ञा येषां ते । 2. अन्धुः(पु) - कूपः ।