________________
5
10
[कर्णिकासमन्विता उपदेशमाला । गाथा-३]
अनाविले कुले जन्म दुर्लभेभ्योऽपि दुर्लभम् । चिन्तारत्नमिव प्राप्य हार्यते किं मुधा बुधैः ॥५५७॥ यतध्वमपवर्गाय तन्निविण्णा भवाद्यदि । स हि सर्वापदां पारमपारानन्दमन्दिरम् ॥५५८॥ प्राप्यते प्राणिभिर्नायं धर्मस्याराधनां विना । किं कदापि क्वचिद् दृष्टो विना वृक्षं फलोद्गमः ॥५५९॥ तस्य सुश्रमणो वा स्यान्मूलोत्तरगुणोत्तरः । सुश्राद्धो वास्पदं सम्यक् सम्यक्त्वाणुव्रतादिभृत् ॥५६०॥ एतौ मोक्षस्य पन्थानौ मन्थानौ भववारिधेः । कामं श्रामण्य-गार्हस्थ्यधर्मी शाश्वतशर्मादौ ॥५६१॥ शक्रचक्रिपदादीनि स्पृहणीयानि यानि तु । असौ कुसुमसम्पत्तिस्तस्य धर्ममहीरुहः ॥५६२॥ फलं तु परमानन्दरसनिस्यन्दसुन्दरम् । महोदयमयं साक्षात् लोकोत्तरमनश्वरम्" ॥५६३॥ श्रुत्वेति देशनां भर्तुर्भरतस्याङ्गजन्मभिः । शतैः पञ्चभिरानन्दान्नप्तृभिः सप्तभिः शतैः ॥५६४॥ सहोदर्या तथा ब्राह्मया परब्रह्मार्पितात्मभिः । तैस्तैर्ऋषभसेनाद्यैः साग्रहैर्जगृहे व्रतम् ॥५६५॥ [युग्मम्] दीक्षां तदाददे किं च मरीचिश्चक्रिनन्दनः । सादरं सुन्दरी किन्तु चक्रिणा वारिता व्रतात् ॥५६६॥ व्रतिनः पुण्डरीकाद्याः साध्व्यो ब्राह्मीपुर:सराः । श्राद्धाः सोमात्मजप्रष्ठाः श्राविका: सुन्दरीमुखाः ॥५६७॥ इत्थं चतुर्विधः सङ्घः स्थापितः प्रभुणा तदा । पूज्यतेऽद्यापि विश्वेऽस्मिन् देवदानवमानवैः ॥५६८॥ [युग्मम्] श्रीपुण्डरीकमुख्यानां यतीशानां जगद्गुरुः । ततश्चतुरशीतेरप्यादिदेश पदत्रयीम् ॥५६९॥ तेऽप्युत्पादव्ययध्रौव्यरूपां प्राप्य पदत्रयीम् । वितेनुरद्भुतप्रज्ञा द्वादशाङ्गानि लीलया ॥५७०॥ शक्रानीतैरथो दिव्यैस्तूर्णं चूर्णैर्जगत्प्रभुः । अनुयोगगणानुज्ञे यच्छंस्तानभ्यषिञ्चत ॥५७१॥ जातेऽथ पौरुषीकाले सकलैर्निस्तुषाक्षतैः । सिद्धः समङ्गलाचारं बलिः पूर्वदिशाऽविशत् ॥५७२॥ क्षिप्तः पतन् सुरैः सोऽर्द्धम र्द्धं चक्रिणा पुनः । यथाविभागमन्यैश्च जगृहे गृहमेधिभिः ॥५७३॥ अथ द्वितीयपौरुष्यां देवच्छन्दं गते प्रभौ । पुण्डरीकमुनेर्व्याख्यां श्रुत्वा जग्मुर्जना गृहान् ॥५७४॥ सदा गोमुखयक्षेण देव्या चाप्रतिचक्रया । अमुक्तसन्निधिः स्वामी सर्वातिशयभाजनम् ॥५७५॥ पावनीमवनी कुर्वन् कोटिदैवतसेवितः । धर्मामृतघनः श्रीमान् विजहारान्यतस्ततः ॥५७६।। युग्मम् ॥ अथ दिग्जयतः प्राप्ताभिषेके चक्रवर्तिनि । व्रतीभूयार्जितज्ञाने भरतस्यानुजव्रजे ॥५७७॥ आरोहदन्यदा स्वामी स्पष्टमष्टापदाचलम् । समं मुनीन्द्रैः पूर्वाद्रिं नक्षत्रैरिव चन्द्रमाः ॥५७८॥ युग्मम् ॥ त्रिविष्टपसदस्तत्र विदधुर्देशनासदः । प्रभुश्चतुर्मुखीभूय तस्मिन् धर्ममुपादिशत् ॥५७९॥ ततः समं समायातौ भरतेशसुरेश्वरौ । निन्यतुः कर्णपूरत्वं विभोर्वचनपल्लवान् ॥५८०॥ देशनान्ते ततश्चक्री बन्धूनालोक्य वत्सलः । तेषां भोगविभागाय जिनराजं व्यजिज्ञपत् ॥५८१॥
20
25
१. ०मपरानन्द० P । २. वापदं P | ३. सम्यक्त्वादिव्रता P । ४. मनुत्तरम् P । टि. 1. श्रेयांसः इत्यर्थः । 2. कर्णपूरः (पुं)-कर्णस्याभूषणम्, तस्य भावः तम् ।