________________
२८
[ कणिकासमन्विता उपदेशमाला । गाथा - ३] स हित्वा लौकिक लक्ष्मीं लिप्सुर्लोकोत्तरां श्रियम् । यद्विधत्तेऽधुना मातः ! फलं त्वं तस्य पश्यसि ॥५३१॥ हृद्यामिति समासाद्य वाक्सुधां वसुधाभुजः । मरुदेवाऽभवद्यावन्निर्विषादविषोदया ॥५३२॥
ज्ञापितौ वेत्रिणा तावत्पुरुषौ द्वावुपेयतुः । तयोराद्योऽवदन्नाम्ना यमको घटिताञ्जलिः ॥५३३॥ दिष्ट्याद्य वैर्द्धसे देव ! कानने शकटानने । उत्पेदे केवलज्ञानं युगादिजगदीशितुः ॥५३४॥ 5 व्यजिज्ञपत् द्वितीयोऽथ ख्यातः शमकसंज्ञया । आविरासीत्प्रभो ! चक्ररत्नमद्यास्त्रमन्दिरे ॥ ५३५॥ मह:सहजमाहात्म्यविध्वस्तात्मविरोधिनः । पूर्वं प्रभोर्वा कुर्वेऽहमर्चं चक्रस्य वा स्वयम् ॥५३६॥ क्व वा जगत्त्रयत्राता तातः शातितकल्मषः । क्व चैनसांनिधिश्चक्रं भुवनैकभयङ्करम् ॥५३७॥ ध्यात्वेति तुष्टिदानेन विसृज्य मुदितौ च तौ । मरुदेवामुवाचैवं भरतो हर्षनिर्भरः ॥५३८॥ विशेषकम् ॥ मातः ! सुतवियोगेन त्वं सदा दुःखतः पुरा । रूक्षाक्षरं समादिक्षः पेश्याद्य तु सुतश्रियम् ॥५३९॥ पितामहीं महीनाथस्तदेत्युक्त्वाऽधिरोप्य च । कुञ्जरे स्वयमारोहत् कृतकौतुकमङ्गलः ॥५४०॥ अथ व्रजन् गजारूढो मरुदेवीमुवाच सः । मातराकर्ण्यतामेतत्पुत्रस्य विभुताद्भुतम् ॥५४१॥ रूप्यकल्याणमाणिक्यमयवप्रत्रयावृतम् । देशनासदनं चक्रुः शक्रादेशेन नाकिनः ॥५४२ ॥ अयं वृन्दारकैर्बन्दिवृन्दैरिव जयध्वनिः । त्वत्पुत्रस्य पुरो मातः ! क्रियमाणो विभाव्यते ॥५४३॥ अयमम्भोधरध्वानगम्भीरो दुन्दुभिध्वनिः । मातस्तनोति सोत्सेकाः केकाः काननकेकिनाम् ॥५४४|| श्रुत्वेति मरुदेवायास्तदानन्दाश्रुवारिभिः । नेत्रयोर्नीलिकापङ्कशङ्कापि क्षालिता क्षणात् ॥५४५॥ स्वयमेवाथ पश्यन्त्यास्तस्यास्तद्वैभवं विभोः । विलीनं मनसा सद्यः परानन्दाऽमृतद्रवैः ॥५४६ ॥ तदैव केवलज्ञानं तस्याः प्रादुरभूत् ततः । तपोभिः प्राप्य मात्रे नुं प्रभुणा प्राभृतीकृतम् ॥५४७।। अन्तकृत्केवलीभूय लोकान्तमथ साऽगमत् । मन्ये मुक्तिपुरद्वारमपसारयितुं पुरः ||५४८॥ अस्यामस्यावसप्पिण्यां प्राच्यसिद्धस्य तद्वपुः । त्रिदशैर्निदधे तूर्णं सत्कृत्य क्षीरनीरधौ ॥५४९ ॥ ततःप्रभृति लोकेषु वृत्तं मृतकपूजनम् । सर्वो हि दर्शितां पूर्वैर्वर्त्तनीमनुवर्त्तते ॥५५०॥ व्याप्तोऽथ शोक - हर्षाभ्यां बद्धस्पर्द्ध धराधवः । निशाप्रान्त इव ध्वान्तप्रकाशाभ्यामभूत् समम् ॥५५१॥ पत्तिर्विमुक्तच्छत्रादिर्दूरादुरीकृताञ्जलिः । देशनासदनस्यान्तः प्रविवेश विशाम्पतिः ॥५५२॥ त्रिश्च प्रदक्षिणीकृत्य नमस्कृत्य जगद्गुरुम् । यथास्थानं निविष्टोऽथ प्रहृष्टो भरतेश्वरः ||५५३॥ अथाऽऽयोजनगामिन्या सर्वभाषानुरूपया । गिरा जगद्गुरुस्तत्र विदधे धर्मदेशनाम् ॥५५४॥ 25 ‘“असावसारसंसारविषोद्गारैकसारणिः । दूरेण युज्यते त्यक्तुं मोहनिद्रा महात्मनाम् ॥५५५॥
मोहभिल्लेशपल्लीव त्याज्यं च भवकाननम् । पुण्यरत्नहरैः क्रूरैश्चौरै रागादिभिर्वृतम् ॥५५६॥
10
15
20
१. वर्तसे P । २. परां पश्य तु P । ३. तु K, D। ४. प्राच्यासिद्ध० K, D ५. वर्तिनी० K, D। ६. हर्ष - शोकाभ्यां P । ७. ० पल्लीवत् त्याज्यं P। टि. 1. मनसा इति कर्त्तृपदम् । सम्पा० ।