________________
२७
[कर्णिकासमन्विता उपदेशमाला । गाथा-३] यावत्पुरन्दरप्रायः पश्यन् शृङ्गारितां पुरीम् । भगवान् विषयत्रासी यत्रासीत्तत्र यातवान् ॥५०६॥ युग्मम् ॥ विजहारान्यतस्तावत् प्रभञ्जन इव प्रभुः । श्रवद्बाष्पं नृपं प्राह सचिवः शुचिवागथ ॥५०७॥ हृद्ये करोति हृद्येव देवस्तव सदा पदम् । तद्विषादनिषादस्य सुखदस्योर्वशेऽसि किम् ॥५०८॥ पदानि पद्मकुलिशाङ्कुशाङ्कानि जगद्गुरोः । एतानि तानि भूखण्डमण्डनानि नमस्कुरु ॥५०९॥ सचिवस्य वचः कृत्वा तत् तथा पृथिवीपतिः । धर्मचक्रमिह त्रुट्यत्कर्मचक्रः प्रचक्रमे ॥५१०॥ नभोरत्नसपत्नोरुरत्नराजिविराजितम् । तद् विधाय व्यधादेष स्पष्टमष्टाह्निकामिह ॥५११॥ . अष्टयोजनविस्तीर्णे चक्रेऽस्मिन् योजनोन्नते । सहस्रारे सहस्राणि यामिकानां नृपोऽमुचत् ॥५१२॥ ततश्च भगवान् भास्वांस्तमःशमनकर्मठः । विहरन् म्लेच्छदेशेषु पङ्कशेषमशोषयत् ॥५१३।। अथ वर्षसहस्रान्ते घस्रान्त इव चन्द्रमाः । पुरं पुरिमतालाख्यं प्राचीमुखमिवागमत् ॥५१४॥ अयोध्याया महापुर्यास्तस्मिन् शाखापुरे स्थितः । फाल्गुने मासि कृष्णायां प्रभुरेकादशीतिथौ ॥५१५॥ 10 तदानीमुत्तराषाढावस्थिते सितदीधितौ । अवाप केवलज्ञानं शुक्लध्यानधनो जिनः ॥५१६॥ ततश्चासनकम्पेन समीयुस्तत्र वासवाः । अथाऽकारि चमत्कारि त्रिदशैर्देशनासदः ॥५१७॥ प्रविश्य पूर्वद्वारेण नत्वा तीर्थं च तीर्थकृत् । भेजे भद्रासनं सिंहलक्षणं सप्रदक्षिणम् ॥५१८॥ यथास्थानं निविष्टेसु सभालोकेषु वासवः । एत्यान्तरुत्तरद्वारा चकार त्रिःप्रदक्षिणाम् ॥५१९।। अथ स्तुत्वा नमस्कृत्य कृतकृत्यः सुरेश्वरः । प्रभोरुपासनाहेतोरासन्नासनमासदत् ॥५२०॥ इतश्च भरतो भक्तिभरतो मातरं पितुः । तदाऽगमन्नमस्कर्तुं स्वकुलस्येव देवताम् ॥५२१॥ तां च पुत्रवियोगेन श्रवदश्रूपयःप्लवैः । उन्मीलन्नीलिकालुप्तदर्शनां जननीं प्रभोः ॥५२२॥ पौत्रो ज्यायानयं मातर्नमति त्वत्पदाम्बुजम् । विज्ञप्यैवं नमस्कृत्य भरतः पुरतोऽभवत् ॥५२३॥ युग्मम् ॥ अथ पुत्रप्रवासेन समं प्रोषितसंमदा । उच्छलच्छोककल्लोलकुल्यया साऽवदद् गिरा ॥५२४॥ वत्स ! स्वच्छन्दमानन्दमेदुरां त्वं श्रितः श्रियम् । मदीयपुत्रको गात्रमात्रस्तु वनवास्यभूत् ॥५२५।। 20 शरीरं सुकुमारं तद्यत्तेन तपसोऽपितम् । रम्भास्तम्भो गृहस्थूणास्थाने तद्विनिवेशितः ॥५२६॥ क्व तास्तस्य सुरश्रीणामास्पदं सुखसम्पदः । क्वेदानीं शीतवातादिपुष्टा कष्टपरम्परा ॥५२७॥ नैवाशनं न वसनं न गृहं न परिच्छदम् । अवगच्छामि वत्सस्य जीवाम्यद्यापि पापिनी ॥५२८॥ तामित्थमथ शोचन्तीममुञ्चन्ती कदाग्रहम् । अभ्यधाद् भरतो मातस्तातस्य त्वं जनन्यसि ॥५२९॥ विज्ञाऽपि किमविज्ञेव सुतवात्सल्यमोहिता । विचिन्तयसि तातेऽपि मातर्मानवमात्रताम् ॥५३०॥ 25
१. शोचन्तीं न मुञ्चन्ती C, D |
टि. 1. तव हृद्ये हृदि देवः सदा पदं करोति एव इत्यन्वयः । 2. निषादः-चण्डाल: तस्य । 3. सुखदस्योः=सुखस्य चौरः, तस्य इत्यर्थः ।