SearchBrowseAboutContactDonate
Page Preview
Page 59
Loading...
Download File
Download File
Page Text
________________ [ कर्णिकासमन्विता उपदेशमाला । गाथा - ३] स्नेहानुविद्धयोर्भ्रातरावयोर्मानसक्षितिः । भाविनी नाविनीतायाः कृते तस्याः कदाचन ॥२३३॥ ऋजुप्रकृतिना तेन स दुष्ट इति भाषितः । कामं मुदितचित्तोऽभूत् स्वभावोऽयं दुरात्मनाम् ॥२३४॥ स्वयोषायामदोषायामपि मित्रगिरा तया । सागरोऽभूद् गतप्रेमा ज्ञापयामास तां न तु ॥२३५॥ प्रियदर्शनया साकं मृत्वा कालेन सागरः । जम्बूद्वीपेऽत्र भरतक्षेत्रार्द्धे दक्षिणेऽभवत् ॥२३६॥ तृतीयारेऽवसप्पिण्यां सिन्धुगङ्गान्तरक्षितौ । शेषे पल्योपमाष्टांशे युग्मधर्म्मा रविच्छविः ॥२३७॥ युग्मम् ॥ माययाशोकदत्तोऽपि सञ्जज्ञेऽत्रैव कुञ्जरः । चतुर्द्दन्तसितच्छायकायस्तं दृष्टवान् भ्रमन् ॥२३८॥ अयं मया क्वचिद् दृष्ट इत्यन्योन्यं सचिन्तयोः । तयोः स्मृतिपथं यातः स्नेहः पूर्वभवोद्भवः ॥ २३९ ॥ प्राग्भवस्मरणात् ज्ञातनीतिः स्कन्धाऽधिरोपितः । करिणा तेन स ख्यातिं लेभे विमलवाहनः ॥२४०|| प्रभावादवसप्पिण्या युग्मिनां ममताजुषाम् । न ददुर्वाञ्छितं कल्पतरवः स्तोकतां गताः ॥२४१॥ ममायमिति कल्पद्रुविषये कलहाकुलाः । अभवन् मार्गगास्ते तु तस्य हाकारदण्डतः ॥२४२॥ तस्य चन्द्रयशानाम्नि कलत्रेऽभवदन्यदा । धनुरष्टशतीतुङ्गं प्राच्यसंहननं शिति ॥ २४३॥ विलुप्तसङ्ख्यपूर्वायुः प्रथमं मिथुनं किल । चक्षुष्मांश्चन्द्रकान्ता चेत्यनयोर्नाम कल्पितम् ॥२४४॥ युग्मम् ॥ जरारोगौ विना मृत्वा ततो विमलवाहनः । सुपर्णाख्यकुमारेषु सुपर्वा समजायत ॥ २४५॥ नागलोकेष्वभूच्चन्द्रयशा अपि मृता ततः । आगान्नागकुमारेषु कुञ्जरोऽपि च्युतस्ततः ॥२४६॥ 15 अन्त्यकालेऽथ चक्षुष्मानपि युग्ममजीजनत् । यशस्वी च सुरूपा च चन्द्रकान्ताङ्गसम्भवम् ॥२४७॥ चक्षुष्मान् स सुपर्णेषु मृत्वोत्पेदेऽमृताशनः । चन्द्रकान्तापि नागेषु समानसमयं किल ॥२४८॥ अथो यशस्विनस्तस्य पितृवत् प्रभुताजुषः । धाष्ट्र्योल्लङ्घितहाकारनीतिभिर्मिथुनैः स्थितम् ॥२४९॥ तच्छासनाय माकारदण्डं चक्रेऽथ स प्रभुः । यथापराधं प्रायुङ्क्त नीतिद्वयमथ क्रमात् ॥ २५० ॥ अभिचन्द्रोऽभवत् पुत्रः प्रतिरूपा च कन्यका । गौरश्यामरुची पत्न्यां सुरूपायां यशस्विनः ॥२५१॥ 20 यशस्व्यब्धिकुमारोऽभूत् सुरूपा त्वस्य वल्लभा । विपद्य सममेवाहिकुमारः समजायत ॥ २५२॥ पुत्रः प्रसेनजिन्नाम चक्षुष्कान्ता च नन्दिनी । अभिचन्द्रस्य जज्ञाते प्रतिरूपाङ्गसम्भवौ ॥२५३॥ अभिचन्द्रो विपद्याब्धिकुमारेषूदपद्यत । सहैव प्रतिरूपा तु जज्ञे नागकुमारकः ॥ २५४ ॥ पितृवद् युग्मिनां शास्ति प्रसेनजिति कुर्वति । सति हाकारमाकारलङ्घने धाष्टर्यतः पुनः ॥२५५॥ धिक्कारनीतिं निर्माय निर्मायः क्रमशस्त्रिभिः । दण्डैरमीभिश्चण्डाज्ञो मिथुनानि शशास सः ॥ २५६ ॥ युग्मम् ॥ 5 10 १६ १. ०स्मरण० L । २. स्कन्धेधिरोपितः K, D । ३. ०ख्यातो जते K, L । ४. मार्गगा: सर्वे० P। ५. ० चन्द्रयशो B, K, H | ६. शिति: K । ७. ० काले च B, K, L, H। ८. सुधाशन K, L टि. 1. B आदर्शे पत्रोपरितनपङ्क्तौ विमलवाहन - चन्द्रयशा १। चक्षुः मान् चन्द्रकान्ता २ यशस्वी सुरूपा ३। अभिचन्द्र प्रतिरूपा ४। प्रसेनजित् चक्षुः कान्ता ५। मरुदेव श्रीकान्ता ६ । श्रीनाभिमरुदेवा ७। इति सप्तयुगलिकनामानि उल्लिखितानि ।
SR No.022274
Book TitleUpdeshmala
Original Sutra AuthorN/A
AuthorKirtiyashsuri
PublisherSanmarg Prakashan
Publication Year2013
Total Pages564
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy