________________
[ कर्णिकासमन्विता उपदेशमाला । गाथा-३]
१५ वैयावृत्त्येन साधूनां बाहुश्चक्रिपदप्रदम् । सुबाहुस्तु बलाधायि कर्म निर्मितवान् मुनिः ॥२१०॥ प्रशंसां च तयोश्चक्रे वज्रनाभमुनीश्वरः । तेन पीठमहापीठौ प्रकामं दुर्मनायितौ ॥२११॥ तदीाजनितं कर्म ताभ्यामालोचनां विना । स्त्रीभावफलदं चक्रे मायामिथ्यात्वयोगतः ॥२१२॥ एतच्चाधस्ताद् वक्ष्यते । यथा
अइसुट्टिओ त्ति गुणसमुइओ त्ति जो न सहइ जइपसंसम् ।
सो परिहाइ परभवे जहा महापीढपीढरिसी ॥२१३॥ त्ति [ उप.मा./गा.६८] क्रमात् षडपि ते पूर्वलक्षान् दीक्षां चतुर्दश । पालयित्वाथ सर्वार्थसिद्धिश्रियमशिश्रियन् ॥२१४॥ ___ इति पूर्वभवाः । इतश्च जम्बूद्वीपेऽस्ति विदेहेष्वपरेषु पू: । ईशानचन्द्रक्ष्माचन्द्रवाता नाम्नाऽपराजिता ॥२१५।। तत्र चन्दनदासस्य श्रेष्ठिनो नन्दनोऽभवत् । ख्यातः सागरचन्द्राख्यो द्राक्षोपमवचस्ततिः ॥२१६॥ 10 कौमुद्यां बाह्यमुद्यानमन्येद्युः सपुरे नृपे । सम्प्राप्तेऽशोकदत्तेन समं मित्रेण सोऽप्यगात् ॥२१७॥ श्रेष्ठिनः पूर्णभद्रस्य नन्दिनीं बन्दिसङ्कटात् । असावत्रान्तरे दृष्ट्वाऽमोचयत् प्रियदर्शनाम् ॥२१८॥ तावन्योन्यसमालोकप्रमोदहृतमानसौ । छलैकदृष्टेः कन्दर्पपिशाचस्य वशङ्गतौ ॥२१९।। स्वं स्वं गृहमथो यातावन्योन्यविरहातुरौ । न रति प्रापतुः क्वापि कामाज्ञा हि सुदुस्सहा ॥२२०॥ अथ सागरचन्द्रस्य श्रुत्वा तद्विक्रमाद्भुतम् । पिता चन्दनदासोऽस्मै सामधामगिरं जगौ ॥२२१॥ 15 कृथा मा स्म वृथा वत्स ! विक्रमक्रममन्यदा । यतो न वणिजां क्वापि शौर्यमौचित्यमञ्चति ॥२२२॥ अपि चाशोकदत्तोऽयं छद्मनः सद्म जङ्गमम् । सङ्गमस्तेन नैतेन समं कार्यः क्वचित् त्वया ॥२२३॥ ईर्ष्यालुः कोऽपि तातस्य मिथ्यैवेदं न्यवेदयत् । यन्मे वयस्यो मायावी मायावीतमना अपि ॥२२४॥ स स्वच्छप्रकृतिश्चित्ते चिन्तयन्निति सागरः । तातादेशः प्रमाणं मे नित्यमित्यवदत् कृती ॥२२५॥ पराक्रमक्रमे नैव तातादेशव्यतिक्रमम् । करिष्यामीति नीतिज्ञः सागरः पितरं जगौ ॥२२६॥ युग्मम् ॥ 20 चन्दनः पूर्णभद्रश्च चित्तज्ञौ सुतयोः स्वयोः । कारयाञ्चक्रतुः प्रीत्या पाणिग्रहमहोत्सवम् ॥२२७॥ पत्या सागरचन्द्रेण तुल्येन प्रियदर्शना । लक्ष्मीर्नारायणेनेव प्रीता नीता कृतार्थताम् ॥२२८॥ मित्रेऽन्यदा बहिर्याते सति तद्वामगामिना । प्रार्थिताऽशोकदत्तेन त्यक्तलज्जेन साऽवदत् ॥२२९॥ त्वं मायातः समायातः किमु रे ! मम मन्दिरे । तुच्छ तद् गच्छ भर्ता मे स्वच्छस्त्वां मित्रमिच्छति ॥२३०॥ अथोद्विग्नो विनिर्गत्य सागराऽग्रेऽब्रवीदिदम् । पत्न्यास्ते दुश्चरित्रायाः सङ्कटेऽद्यापतं सखे ! ॥२३१॥ 25 श्रुत्वेति सागरोऽप्यूचे क्षणं विकृतमानसः । सखे ! न खेदस्ते दक्ष ! विधातुमुचितः क्वचित् ॥२३२॥
१. ०माथायाता० K, LI टि. 1. अमायी इत्यर्थः ।