________________
10
[कर्णिकासमन्विता उपदेशमाला । गाथा-३] भोगान् भुक्त्वा तया साकं साकम्पोऽथ दिवश्च्युतः । क्षेत्रे महाविदेहेऽभूल्लोहार्गलपुरप्रभोः ॥१३७॥ सुतः सुवर्णजङ्घस्य प्रतापजितभास्वतः । स लक्ष्मीकुक्षिमाणिक्यं वज्रजङ्घ इति श्रुतः ॥१३८॥ युग्मम् ॥ नगर्यां पुण्डरीकिण्यां च्युत्वा सापि स्वयम्प्रभा । चक्रिणो वज्रसेनस्य श्रीमतीति सुताऽभवत् ॥१३९॥ अन्यदा प्रमदोद्याने क्रीडन्ती समुपागतम् । मुनि केवलिनं वीक्ष्य वन्दितं देवदानवैः ॥१४०॥ जातजातिस्मृतिर्ज्ञात्वा सा सर्वं पूर्वचेष्टितम् । धात्रेयी पण्डितामाह रहो विश्वासभाजनम् ॥१४१॥ युग्मम् ।। पुरा ममासीदीशानकल्पे हृदयवल्लभः । ललिताङ्ग इति ख्यातस्तत्प्रियाहं स्वयम्प्रभा ॥१४२॥ स च मच्च्यवनात् पूर्वं च्युतः क्वाप्यभवद् भुवि । न ज्ञायते ततस्तस्य प्रयत्नं प्राप्तये कुरु ॥१४३॥ पण्डितापि श्रुताशेषवृत्तान्तानुगतं पटम् । लेखयित्वा गतोपान्ते वज्रसेनस्य चक्रिणः ॥१४४॥ सेवागतानां सर्वेषां कुमाराणामदर्शयत् । दृष्ट्वैतद् वज्रजङ्घोऽपि जातजातिस्मृतिर्जगौ ॥१४५॥ युग्मम् ।। मम पूर्वभवः सोऽयं पण्डिते ! लिखितः कुतः । दिव्यज्ञानवता केन कथितं वा तवाग्रतः ॥१४६॥ एकैकशस्तया पृष्टः पर्वतादिविनिर्णयम् । प्राग्जन्मप्रत्यभिज्ञानात् स यथाभिधमभ्यधात् ॥१४७॥ अथौत्सुकतया वृत्तमनाख्यायापि पण्डिता । श्रीमत्याः पुरतो गत्वा तद् वृत्तान्तं व्यजिज्ञपत् ॥१४८॥ वज्रसेनोऽपि विज्ञप्तः स्वयं पण्डितया तया । सुवर्णजङ्घपुत्रं तं कुमार्या पर्यणीनयत् ॥१४९॥ सोऽथ श्वशुरमापृच्छ्य लोहार्गलपुरं गतः । स्वयं जिघृक्षुणा दीक्षां पित्रा राज्ये निवेशितः ॥१५०॥ सुतं पुष्कलपालाख्यं राज्ये कृत्वा स चक्रभृत् । वज्रसेनोऽपि संजज्ञे मुनीभूयाथ तीर्थकृत् ॥१५१॥ अन्यदा पुष्कलक्ष्मापं श्रुत्वा शत्रुभिरावृतम् । वज्रजङ्घोऽस्य साहाय्यं कर्तुं तन्नगरी ययौ ॥१५२।। तत्र शत्रून् विनिर्जित्य श्रीमत्या सहितोऽथ सः । व्रजन्निजं पुरं मार्गे विलोक्य मुनिसत्तमौ ॥१५३॥ आत्मीयावेव सौदर्यो केवलज्ञानशालिनौ । नमश्चक्रे कृती नाम्ना सेनान्तौ मुनिसागरौ ॥१५४॥ युग्मम् ॥
अथैवं चिन्तयामास वज्रजङ्घनरेश्वरः । अहो मे मन्दभाग्यत्वमहो मे मतिहीनता ॥१५५।। 20 यदहं प्राप्तवाँल्लक्ष्मी पितुरुच्छिष्टशेषवत् । एतौ चारित्रसाम्राज्यं प्रापतुः सोदरौ तु मे ॥१५६।।
अधुनापि पुरं गत्वा दत्त्वा राज्यं स्वसूनवे । चारित्राशनिना कर्मद्रुमं भस्मीकरोम्यहम् ॥१५७॥ इति निश्चित्य भूपालो लोहार्गलपुरं गतः । प्रातर्दित्सुरयं राज्यं प्रसुप्तः श्रीमतीयुतः ॥१५८॥ अज्ञातपरमार्थेन राज्यलोभान्धचेतसा । विषधूमप्रयोगेण घातितो निशि सूनुना ॥१५९॥ युग्मम् ।।
अथोत्तरकुरुष्वेव समं दयितया तया । नृपो युगलधर्मायुः पल्यत्रयमपालयत् ॥१६०॥ 25 सौधर्मकल्पे सङ्कल्पोपनतैः प्रीणितौ सुखैः । स्नेहस्यूतावथाभूतामेककालमुभौ सुरौ ॥१६१॥
१. सकाम्यो KH । २. पदम् P, K | ३. सेनान्तमुनिसागरौ P | टि. 1. साकम् (अव्य०)=सार्द्धम् । 2. मुनिसेनः सागरसेनः इति नामानौ ।