________________
[ कर्णिकासमन्विता उपदेशमाला । गाथा - ३ ]
असावनशनं कृत्वा दिनान् द्वाविंशतिं ततः । ईशानकल्पे देवोऽभूद् विमाने श्रीप्रभाभिधे ॥ ११२ ॥ ललिताङ्गाभिधानस्य तत्र वैषयिकं सुखम् । भुञ्जानस्यान्यदाऽच्योष्ट प्रिया तस्य स्वयम्प्रभा ॥११३॥ हा प्रिये ! देहि मे वाचं प्रलपन्नित्यथोदितः । स्वसामानिकदेवेन सौहार्दाद् दृढधर्म्मणा ॥ ११४॥ यः पुरा मित्र ! मंन्त्रीशः स्वयम्बुद्धस्तवाभवत् । सोऽहं तव वियोगेन प्रव्रज्यैनां श्रितः श्रियम् ॥११५॥ अहं त्वयि ततः स्नेहाद् विज्ञायावधिनाधुना । पुनः स्वयम्प्रभामेनां भाविनीं कथयामि ते ॥ ११६॥ विद्यते धातकीखण्डप्राग्विदेहैकमण्डने । नागिलाख्यो गृहपतिर्नन्दिग्रामेऽतिदुर्गतः ॥११७॥ तस्य नागश्रियां पल्यां पुत्रीषट्कादनन्तरम् । सूताभून्मर्त्यलोकेऽपि नरकक्ष्मेव सप्तमी ॥११८॥ एतस्यां जातमात्रायाममात्रोद्विग्नमानसः । नगरान्निरगाद् दूरं विरागान्नागिलः किल ॥११९॥ दुर्भगत्वेन पुत्र्यास्तु नाम्नोऽप्यकरणादथ । निर्नामिकेत्यभूत्तस्याः प्रसिद्धिर्जनिता जनैः ॥ १२०॥ सा वर्द्धिष्णुः क्रमेणाथ समं दारिद्र्यकर्म्मणा । अगमद् दारुभारार्थं नभस्तिलकपर्वते ॥१२१॥ युगन्धरमुनिं तत्र सुरासुरनमस्कृतम् । दृष्ट्वा नत्वाथ तद्व्याख्यां श्रुत्वा संवेगतो जगौ ॥१२२॥ "दुःखिनः सन्ति भूयांसो भवेऽस्मिन् भगवन् ! जनाः । मत्तस्तु मन्दभाग्यायाः कोपि दुःखाधिकोऽस्ति किम्" ॥१२३॥ अथो युगन्धरः प्राह केवलज्ञानभास्करः । " वत्से ! धत्से मुधा दुःखाद्वैतवैतण्डिकं मनः ॥ १२४॥ दुःखानि परतः सन्तु तावन्नरकवासिनाम् । श्रुतमात्राणि भिन्दन्ति हृदयं यानि देहिनाम् ॥१२५॥ परं प्रत्यक्षमेवैते वनेऽपि सुखमानिनः । विनापराधं बध्यन्ते पशवः पश्य पापिभिः ॥१२६॥ दृढं कशाभिस्ताड्यन्ते कर्कशाभिस्तुरङ्गमाः । बध्यन्ते चाद्भुतप्राणबन्धुरा अपि सिन्धुराः ॥१२७॥ परद्रव्यपरद्रोहपराः पश्य नरा नृपैः । क्रन्दन्तः करुणं मारैर्निहन्यन्ते नवैर्नवैः ॥१२८॥ स्वस्वामिभावसम्बन्धमुर्मुरैर्मर्म्मदाहिभिः । वत्से ! स्वर्गेऽपि ताप्यन्ते मरुतो विरतोत्सवाः ॥१२९॥ विलोक्यते न तल्लोके प्रदेशो निरुपप्लवः । आराध्यते न चेदेष धर्मः शर्म्मनिबन्धनम् ॥१३०॥ संसारदुःखसंमर्द्दकर्दमे पततामयम् । धर्म एव भुजालम्बं दत्ते नान्यः शरीरिणाम् ॥१३१॥ आराद्धश्च विराद्धश्च चक्रवर्त्तीव देहिनाम् । धर्म्मस्तुष्टश्च रुष्टश्च सुखं दुःखं च यच्छति ॥१३२॥ सुखस्य वत्से ! तद् वाञ्छा यदि ते विद्यते हृदि । आराध्यतां ततो धर्म्मः कल्पनाकल्पपादपः” ॥१३३॥ उपदेशमिति श्रुत्वा मुनेस्त्रैकाल्यदर्शिनः । अनुज्ञां चास्य संप्राप्य दुःखौघक्षयकाङ्क्षया ॥१३४॥ उद्विग्ना निजदेहेऽपि गृहीतानशनाधुना । वर्त्ततेऽस्यास्ततो गत्वा स्वरूपं दर्शय स्वयम् ॥१३५॥ युग्मम् ॥ तथा कृतेऽथ तेनैषा तस्मिन्नेवानुरागिणी । मृत्वा तस्याऽभवद् देवी प्रेमपात्रं स्वयम्प्रभा ॥ १३६॥
११
१. मन्त्री स्वयम्बुद्ध K, L, KH | २. प्रव्रज्यैमां B । ३. नन्तरा A, B, C, P, H । ४. स तस्यां K, L, H, B, KH । ५. स्वं रूपं K, KH, DI
5
10
15
20
25