________________
[ कर्णिकासमन्विता उपदेशमाला । गाथा - ३] सार्थवाहस्तथा स्पष्टमाश्लिष्टश्चिन्तया तया । ईर्ष्ययेव यथा तस्मान्निद्रया विद्रुतं द्रुतम् ॥४१॥ यामिन्याः पश्चिमे यामे शुश्रावाथ श्रुतिप्रियम् । असौ परस्परालापं मन्दुरायामपालयोः ॥४२॥ तावत् परोपकारित्वमस्य लोकस्य दृश्यते । यावद् दुःसमयछद्मा निकषो निकषा न हि ॥४३॥ यथा यथा पुनः कालः करालोऽयं विजृम्भते । तथा तथाऽयं नः स्वामी प्रतिपन्नेऽतिनिश्चलः ॥४४॥ 5 परितः प्रसरन्त्येताः पयोदचयवीचयः । प्रतिपन्नार्थवीरस्य प्रभोरस्य च कीर्त्तयः ॥४५॥ संलापमेतयोः सर्वं श्रुत्वा श्रुतवतां वरः । चित्ते संचिन्तयामास स चिद्रूपशिरोमणिः ॥४६॥ ध्रुवमाभ्यामुपालम्भं लम्भितोऽस्मि स्तुतिच्छलात् । यदीदृशि मया कष्टसंकटे पातितो जनः ॥४७॥ अथ संचिन्तयन् सार्थे सार्थेशः स सुखासुखे । सस्मार धर्मघोषस्य मुनेर्विमलमानसः ॥४८॥ अप्रासुकीकृतं धन्याः पयोऽपि न पिबन्ति ये । कथं तेषां मुनीन्द्राणां प्राणयात्रा भविष्यति ॥४९॥ अहो मे मन्दभाग्यस्य तथा निश्चेतनं मनः । यथा कथापि साधूनां नाकारि सहचारिणाम् ॥५०॥ अत्रान्तरे पपाठोच्चैर्बहिर्मङ्गलपाठकः । उदयानुगतं भानोः प्रातः सुप्रातमङ्गलम् ॥५१॥ रुद्धोऽपि मेघैः सार्थेश ! भवानिव विभाविभुः । अमुञ्चन्नयमुत्साहमुपकारार्थमुद्ययौ ॥५२॥ अथ प्राभातिकं कृत्यं विधाय विधिवद् धनः । माणिभद्राभिधं मित्रं पप्रच्छ जनवेत्सलः ॥५३॥ धर्मघोषप्रभुः कुत्र कथं वा मित्र ! वर्त्तते । यदहो सुबहोः कालादद्य मे स्मृतिमागतः ॥ ५४ ॥ तेनाथ कथिते तेषामाश्रये समुपागतः । गुरूंश्च तत्पुरस्ताच्च स हृष्टो दृष्टवान् मुनीन् ॥५५॥ कायोत्सर्गस्थितान् कांश्चिदितरान् ध्यानबन्धुरान् । स्वाध्यायधन्यानन्यांस्तु प्रत्युपेक्षापरान् परान् ॥५६॥ स प्रणम्य क्रमादेतान् धर्मकर्मसु कर्मठान् । गुरोः पुरस्तादासीनः कृताञ्जलिरदोऽवदत् ॥५७॥ युग्मम् ॥ समायाताः स्वसार्थेऽस्मिन् वचनैर्मम निर्म्ममाः । चक्रे मया न चिन्ताऽपि सन्तापि हृदयं ततः ॥५८॥ महामोहस्य माहात्म्यात् तदिदं स्खलितं मम । सर्वं क्षन्तव्यमव्यग्रमतिभिर्मुनिपुङ्गवैः ॥५९॥ अथो गुरुरभाषिष्ट कष्टमेतन्मुधैव ते । सार्थाधीश ! किमस्माकं न हितं विहितं त्वया ॥६०॥ संसार इव दुर्लङ्घ्ये कान्तारेऽस्मिन्महामते ! । भवता दुष्टकर्म्मभ्यो दस्युभ्यो रक्षिता वयम् ॥६१॥ मुनीनामन्नपानादि सर्वमेते यथोचितम् । सार्थवाह ! प्रयच्छन्ति सार्थिकास्ते निरन्तरम् ॥६२॥ धनोऽप्यूचे गुणमयं मन्यन्ते गुणिनो जगत् । वसुधा हि सुधाभानोः सुधाधौतेव भासते ॥ ६३॥ तत्कल्पनीयमाहारमिदानीं दित्सुरस्म्यहम् । मुनीन् प्रेषयतावासं प्रति सद्यः प्रद्य मे ॥६४॥ वर्त्तमानेन योगेनेत्युक्ते भगवताथ सः । प्राप्तः स्वावासमासन्नबोधिः शोधितमानसः ॥ ६५ ॥
10
15
20
८
१. ०धीरस्य H | २. ० वत्सलं K । ३. ०ततो P। ३. ० स्माकमहितं । ४. दुर्लङ्घो H दुर्लंघे B, A
टि. 1. दुःसमय एव छद्म (निभं ) यस्य स । 2. कषपट: 3. आसन्नम् । 4. चिद्रूपः - ज्ञानी । 5. यद् ईदृशि इति सन्धिविग्रहः ! । 6. प्रभातमङ्गलम् । 7. विभा तेजः तस्याः विभुः स्वामी, सूर्यः । 8. अव्यग्रमतिभिः = अनासक्तमतिभिः ।