________________
[ कणिकासमन्विता उपदेशमाला । गाथा- ४८१-४८४ ]
किमगं तु पुणो जेणं, संजमसेढी सिढिलीकया हो । सो तं चिय पडिवज्जइ, दुक्खं पच्छा हु उज्जमइ ॥४८२॥
अत्रेदमोऽध्याहारात् इदं तु किम् अकं 'अकं दुःखाऽघयो 'रिति पाठात् किं पापं प्राक्तनगाथोक्तादपि अशक्यतममित्यर्थः । पुनः पूर्वं प्रतिबुद्धय संयमं स्वीकृत्य भूयो येन जीवेन संयमश्रेणिर्गुणपद्धतिः शिथिलीकृता भवति । स जीवस्तामेव संयमश्रेणि प्रतिपद्यते । हुर्निश्चये । ततो निश्चितमसंशयं दुःखं कष्टतरं 5 श्रद्धातुमप्यशक्यं स्वीकृत्य पुनः शिथिलीकृत्य च तत्पश्चाद् भूयस्तस्यैव स्वीकाराय उद्यच्छति उद्यमं करोति महामोहवृद्धेरत्यन्तासम्भाव्यमेवैतदित्यर्थः ॥४८२॥
लघुकर्माणस्तु यदुपदिश्यते तदाचरन्तीति तान् प्रति उपदेशोपनिषदमाह–
जइ सव्वं उवलद्धं, जइ अप्पा भाविओ उवसमेणं । कायं वायं च मणं च उप्पहेणं जह न देइ ॥ ४८३ ॥
४६३
यदि सर्वम् अनन्तरोक्तं वक्ष्यमाणं च सिद्धान्ताभिहितं च उपलब्धं सम्यगवगतं भवद्भिः । यद्यात्माऽन्तःकरणरूपो भावितो वासित उपशमेन रागादिजयेन, एतेन सम्यगुपलम्भकार्यं दर्शितम् । ततो हे विवेकिनः ! पूर्वदोषक्षपणार्थं भाविदोषरक्षणार्थं च कायं वाचं चस्य व्यवहितसम्बन्धान्मनश्च उत्पथेन उन्मार्गेण यथा न ददध्वं यथोत्पथप्रवृत्ता योगा न स्युस्तथा वर्त्तितव्यमिति शेष इत्यर्थः । एतेन योगत्रयनिरोध व आगमार्थानुष्ठानं संयम इत्युक्तं भवति । तथा चोक्तम् - " मनोवाक्कायनियमनं तप" [ ] इति ॥ ४८३॥
तत्र कायमधिकृत्याह
[ कूर्मकथानकम् ॥]
श्रीपार्श्वोत्पत्तिपूतायां वाराणस्यां पुरा पुरि । उपगङ्गमभून्नाम्ना मृतगङ्गातटो हृदः ||१|| तस्माददूरसीमान्ते मालुकाकच्छकोऽभवत् । तत्राभूतां पलाहारौ द्वौ घोरौ घोरवाशिनौ ॥२॥ तपनेऽस्तमितेऽन्येद्युर्नदासन्नतटीचरौ । वृत्तयेऽभिचरत् कूर्मद्वितयं तावपश्यताम् ॥३॥ कमठौ तौ शठौ दृष्ट्वा व्यथितावथ तावपि । पञ्चाङ्गगुप्त इत्याख्यां सत्यतां निन्यतुर्निजाम् ॥४॥
10
हत्थे पाए न खिवे, कायं चालिज्ज तं पि कज्जेण । कुम्मो व्व सए अंगम्मि अंगोवंगाइ गोविज्जा ॥४८४॥
1
हस्तौ पादौ न क्षिपेत् निष्प्रयोजनं न प्रेरयेत् । कायं देहं चालयेत् तदपि न यथाकथञ्चित् ? किं तर्हि-कार्येण ज्ञानादिप्रयोजनेन । तथा कूर्म इव कच्छप इव स्वकीयेऽङ्गे शरीरे अङ्गोपाङ्गानि अत्र 20 पदादीनामुक्तार्थत्वात् पारिशेष्यन्यायेन पञ्चाऽपि इन्द्रियाणि गोपयेत् लीनानि कुर्यादिति तत्त्वार्थः । व्यासार्थस्तु कूर्मज्ञातादवसेयम् ॥४८४ ॥ तथाहि
१. प्रतिपद्यत एव अवधारणार्थस्य एवशब्दस्यात्र संबन्धात् श्रयते एव, दुःखं तु अत्यंतकष्टतरं तु पश्चादुद्यच्छति K, D | २. दुःखं
त एव अवधारणार्थस्य एव... शेषं K, D सदृशः पाठः - KH
टि. 1. घोरवाशिन् (पु०) - फेरु:, भूरिमाय:, सृगालः, शिवा, घोरवासी जम्बुकः एकार्थिकानि ।
15
25