SearchBrowseAboutContactDonate
Page Preview
Page 505
Loading...
Download File
Download File
Page Text
________________ 5 [ कणिकासमन्विता उपदेशमाला । गाथा-४७८-४८१] यत्तदोरध्याहारस्तेन स तथा अप्रत्ययं जनयन् यज्जीवति तज्जीवितं प्राणधारणं तस्य धिग् निन्दनीय - मित्यर्थः ॥ यदुक्तम् " वरं प्रवेष्टुं ज्वलितं हुताशनं, न चापि लुप्तं चिरसञ्चितं व्रतम् । वरं हि मृत्युः सुविशुद्धकर्मणो न चापि शीलस्खलितस्य जीवितम् " ॥१॥ [ ] इति ॥ ४७८॥ ४६२ यस्तु द्राघीयांसं कालं व्रतधारणमेवेष्टसिद्धये मनसि दृढयति, न निरतिचाराचारचतुरताम् तं प्रत्याह " 20 न तर्हि दिवसा पक्खा, मासा वरिसा व संगणिज्जंति । जे मूलउत्तरगुणा, अक्खलिया ते गणिज्जंति ॥४७९॥ न तस्मिन् धर्मैकसाधने साध्येऽर्थे, दिवसाः पक्षा मासा वर्षाणि वा संगण्यन्ते सङ्कल्यन्ते । किं तर्हि ? ये मूलोत्तरगुणा अस्खलिता निरतिचारास्ते गण्यन्ते इष्टार्थप्रापकत्वस्य तेष्वेवावसितत्वात् इति 10 ||४७९॥ इत्थं चिरदीक्षितत्वमप्रमाणीकृत्य निरतिचारत्वं स्थापयन् तत्साधनमप्रमादितामुपदिशति जो न वि दिणे दिणे, संकलेइ के अज्ज अज्जिया मि गुणा ? । अणे य न य खलिओ, कह सो उ करेज्ज अप्पहियं ? ॥४८० ॥ यो नापि दिने दिने अपिशब्दात् प्रतिरात्रं च सङ्कलयति बुद्ध्या सम्यग् निरूपयति । यदुतsarsa मया गुणा ज्ञानादयोऽगुणेष्वति तृतीयार्थे सप्तमी तेन अगुणैर्मिथ्यात्वादिभिर्न च नैव 15 स्खलितोऽतिचारं प्राप्त इति च न सङ्कलयति । कथं स कुर्यादात्महितं स्वपथ्यं शुद्धवासनाशून्यत्वादिति ॥४८०॥ तदिदं मूलतःप्रभृति सदनुष्ठानमुपदिष्टमपि यः कश्चित् मूलतो न प्रतिपद्यते तस्य स्वरूपं दुश्चिकित्स्यमित्याह इय गणियं इय तुलियं, इअ बहुहा दरिसियं नियमियं च । जइ तहवि न पडिबुज्झइ, किं कीरउ ? नूण भवियव्वं ॥ ४८१ ॥ इत्युक्तेन प्रकारेण गणितं परिसङ्ख्यातं 'संवच्छरमुसभजिणो' इत्यादिना सदनुष्ठानमिति सर्वत्राभिसम्बन्धः । तुलितं आकलितम् 'उवसग्गसहस्सेहि वि' इत्यादिना 'थैवेण वि सप्पुरिसा' इत्यादिना च । इति बहुधा अनेकप्रकारं दर्शितम् आर्यमहागिरिदृष्टान्तादिना । नियमितं च नियन्त्रितं चशब्दात् ‘समिईकसायगारव' इत्यादिना अन्वयेन । 'बायालमेसणाओ न रक्खई' इत्यादिना च व्यतिरेकेण इत्थमुभाभ्याम् अन्वयव्यतिरेकाभ्यां नियन्त्रितं निश्चित्य दृढीकृतमिति यावत् । इयताप्यादरेणोपदिष्टे यदि तथापि न 25 प्रतिबुद्ध्यते गुरुकर्मा जीवो न बोधमाप्नोति । ततः किं क्रियताम् अधिकतरमन्यत् । नूनं निश्चितं भवितव्यमवश्यंतया नान्यथा कर्तुं शक्यमित्यर्थः ॥४८१॥ भवतु तावदेतत् गुरुकर्मा भवितव्यतानिरुद्धो मूलत एव न बुध्यते इति । यः पुनर्बुद्ध्वा प्रतिपद्य संयमं भूयः शिथिलीभूय पुनरुपदेशेनाऽपि बोध्यमानो दुर्बोधः स्यात्, तं सोपहासं वितर्कयति— १. साधन - C | २. दृढीकरणमिति - A । ३. भूयान्नान्य.... C । टि. 1. गाथा - ३ । 2. गाथा - ३१। 3. गाथा - २८ । 4. गाथा - २९५ । 5. गाथा - ३५४ ।
SR No.022274
Book TitleUpdeshmala
Original Sutra AuthorN/A
AuthorKirtiyashsuri
PublisherSanmarg Prakashan
Publication Year2013
Total Pages564
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy