SearchBrowseAboutContactDonate
Page Preview
Page 504
Loading...
Download File
Download File
Page Text
________________ [कर्णिकासमन्विता उपदेशमाला । गाथा-४७५-४७८] ४६१ सुविहिताचरणार्थमुपायमाह कह कह करेमि कह मा करेमि कह कह कयं बहुकयं मे । जो हिययसंपसारं, करेइ सो अइकरेइ हियं ॥४७५॥ विवेकिना अनुक्षणमिति पर्यालोच्यं-यदुत कथं कथं करोमि हितमनुष्ठानम् । पर्यालोचस्यादरातिशयख्यापनार्थं सम्भ्रमे द्विर्वचनम् । कथं मा करोमि अकृत्यं, कथं मा कार्षं परिहरामीति कथं वा कृतं बह्विति 5 बहुगुणं कृतमनुष्ठानं मे ममेत्यवहितस्य गुणमाह-यो विद्वान् हृदयसंप्रसारं चित्तसावधानतां करोति सः अतिकरोति अतीव सम्पादयति हितमात्मपथ्यमिति ॥४७५॥ अस्यादरोपदेशस्य निदानमाह सिढिलो अणायरकओ, अवसवसकओ तहा कयावकओ। सययं पमत्तसीलस्स, संजमो केरिसो हुज्जा ? ॥४७६॥ सततं निरन्तरं प्रमदनं प्रमत्तं प्रमादो विषयाद्यभिलाषस्तच्छीलस्य तत्र स्वरसप्रवृत्तस्य संयमः कीदृशो 10 भवेत् ? न कीदृशोऽपीति भावः । संयम एव पूर्वार्द्धन विशिष्यते-शिथिलः कर्त्तव्य एवेत्यनियन्त्रितः । अनादरकृतोऽयत्नानुष्ठितः, यत्नसेवितोऽपि वा अवशो गुर्वाद्यधीनता, तद्वशेन गुर्वादि प्रति भयेन कृतो नात्मश्रद्धयाऽनुष्ठितः । यत्नेन धर्मश्रद्धया च क्रियमाणोऽप्यप्रेक्षापूर्वकारितयाऽन्तरान्तराऽकृत्यान्तरसान्तरायः स्यादित्याह – तथा कृतापकृतः क्वचित् सम्पूर्णानुष्ठानात्कृतश्चासौ अपकृतश्च क्वचित् सर्वथा विरोधनादिति गाथार्थः ॥४७६॥ प्रमादशीलस्य भूयोहानिमाह चंदो व्व कालपक्खे, परिहाइ पए पए पमायपरो । तह उग्घरविग्घरनिरंगणो य न य इच्छियं लहइ ॥४७७॥ चन्द्र इव कालपक्षे कृष्णार्द्धमासे परिहीयते परिक्षयं याति । गुणापेक्षया पदे पदे प्रमादपरः सन् साधुरिति गम्यते, अभ्युच्चयमाह -तथा उद्गृहविगृहनिरङ्गनश्च न च नैव इष्टं लभते इति । तत्र उद्गतं प्राबल्येन नष्टं गृहं गार्हस्थ्यपर्यायोचितं यस्य स उद्गृहः, विगृहः-प्रव्रज्यापर्याये विशिष्टवसत्यभावात् । 20 निरङ्गनोऽङ्गनारहितस्तेषां कर्मधारयः । तदयमर्थः क्लिष्टाध्यवसायवशाद्विषयान् वाञ्छन्नसौ केवलं प्रतिक्षणं कर्म चिनोति न पुनरिष्टमाप्नोति तत्साधनानां गृहगृहिणीप्रभृतीनामभावादिति ॥४७७॥ यच्चासाविहैवानुभवति तदाह भीउव्विग्गनिलुक्को, पागडपच्छन्नदोससयकारी । अप्पच्चयं जणंतो, जणस्स धी जीवियं जियइ ॥४७८॥ भीत: सदोषतया शङ्कितः । उद्विग्नः कः किं मां भणिष्यतीत्युत्त्रस्तः । निलुक्को त्ति सङ्घपुरुषादिभयेन गोपितात्मा । किमित्येवम्भूतो ? यतः प्रकटप्रच्छन्नानि जनेन विदिताविदितानि दोषशतानि कर्तुं शीलमस्येति प्रकटप्रच्छन्नदोषशतकारी । अत एव अप्रत्ययं धर्मविषयमविश्वासं जनयन् जनस्य लोको हि तमेवंविधमेकमसमीक्षितकारिणं समीक्ष्य सर्वे एव एते एवंविधा एवेत्युत्प्रेक्षते । सोपस्कारत्वाच्च सूत्रस्य अत्र 15 25 १. प्रमदं - D, B | २. सान्तर: KH | ३. तत्साधूनां - CI
SR No.022274
Book TitleUpdeshmala
Original Sutra AuthorN/A
AuthorKirtiyashsuri
PublisherSanmarg Prakashan
Publication Year2013
Total Pages564
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy