________________
४६०
[कर्णिकासमन्विता उपदेशमाला । गाथा-४७१-४७४] एतच्च केचिदुपदिशन्तोऽपि गुरुकर्मकत्वान्न कुर्वन्तीत्याह
साहंति य फुडवियडं, मा-साहससउणसरिसया जीवा ।
न य कम्मभारगरुयत्तणेण, तं आयरंति तहा ॥४७१॥
साधयन्ति चापरेभ्यः कथयन्त्येव स्फुटविकटं स्पष्टविस्तरं मासाहसशकुनसदृशका जीवाः । न च 5 नैव कर्मभारगुरुकत्वेन हेतुना तत् स्वयं कथितमाचरन्ति तथा यथा कथयन्तीति भावः ॥४७१॥
संविधानकमाह
वग्घमुहंमि अइगओ, मंसं दंतंतराउ कड्डइ य ।
मा-साहसं ति जंपइ, करेड़ न य तं जहाभणियं ॥४७२॥
व्याघ्रमुखेऽतिगतः अन्तःप्रविष्टो मांसं दन्तान्तराद् दशनविचालात् कर्षति च चञ्च्वग्रेण गृह्णाति 10 चशब्दात् स्वादति च मा साहसमिति जल्पति न करोति च तद्यथा स्वयं भणितमिति ।
"पान्थेन केनाप्यटता वनान्तरा-दाकर्ण्य मासाहसवाक शकुन्तः । व्याघ्राननाग्रात् पिशितांशकर्षी निरीक्ष्य चाभाणि सविस्मयेन ॥१॥ व्याघ्रस्य दन्तक्रकचान्तरालं प्रविश्य भोः खादसि मांसपेशीः ।
मा साहसं चेति गिरो ब्रवीषि रे मुग्ध ! वाचां न सदृक्करोषि" ॥२॥[ ] __15 एवमन्येऽपि येऽन्यथावादिनोऽन्यथाकारिणश्च ते तत्तुल्या द्रष्टव्या इति ॥४७२॥
अथ यथोक्तकारिणामाचारमनुवादद्वारेणोपदिशति
परियट्टिऊण गंथत्थवित्थरं, निहसिऊण परमत्थं ।
तह तं करेइ जह तं, न होइ सव्वं पि नडपढियं ॥४७३॥
परिवाऽनेकपरिपाटिभिरभ्यस्य ग्रन्थः सूत्रम् अर्थो व्याख्यानं तयोविस्तरं प्रपञ्चम् , अभ्यासश्च 20 घोषणिकामात्रेण शुकवदपि स्यादित्याह - निघृष्य कनकमिव कषपट्टके परमार्थं तत्सारं निश्चित्येत्यर्थः । तथा
यथोक्तप्रकारेण तं सूत्रार्थविस्तरं करोत्यासेवते यथा तन्न भवति सर्वमपि नटपठितं तद्धि नर्तकाधीतं बहिर्जनरञ्जनमात्रप्रयोजनं कृत्रिमम् । स्वरसप्रसरसमुत्थमात्मरञ्जनप्रयोजनं तु सुविहिताचरणमित्यनयोर्दूरमन्तरमिति ॥४७३॥
नटपाठं व्याचष्टे - 25
पढइ नडो वेरग्गं, निव्विज्जिज्जा बहूओ जणो जेण ।
पढिऊण तं तह सढो, जालेण जलं समोय ॥४७४॥ . पठति व्यक्तया वाचा नटः शैलूषो वैराग्यं कारणे कार्योपचारात्तज्जनकं श्लोकगाथादिकं गृह्यते । निर्विद्येत भवान्निर्वेदं गच्छेद् बहुः प्रभूतो जनो येन, स पुनः पश्चात्पठित्वा तद् वैराग्यजनकं श्लोकादि । तथा
तदभिनयादिप्रकारेण शठो मायावी जालेन करणेन जलं समवतरति मत्स्यादिजिघृक्षयेति दुरापास्त एव 30 नटपठितदृष्टान्तो यथोक्ताचरणसेविनां सुसाधूनामिति ॥४७४॥
१. स्वादते - A,C। २. गच्छेत - P।