SearchBrowseAboutContactDonate
Page Preview
Page 501
Loading...
Download File
Download File
Page Text
________________ ४५८ [कर्णिकासमन्विता उपदेशमाला । गाथा-४६३-४६६] जैनर्षीणाम् अखण्डं सामायिकमेव व्रतेष्वपि तत्त्वमिति अहिंसाव्रतं मुखेकृत्वा उपदिशति सव्वो न हिंसियव्वो, जह महिपालो तहा उदयपालो । न य अभयदाणवइणा, जणोवमाणेण होअव्वं ॥४६३॥ सर्वो जन्तुर्न हिंसितव्यो यथा महीपालो राजा तथा उदकपालो रङ्क उभावप्यरक्तद्विष्टेन समावेव 5 द्रष्टव्यावित्यर्थः । न च नैव अभयदानपतिना तदायकत्वात्तत्स्वामिना । अभयदानवतिना अहिंसकत्वेन अभयं मया दातव्यमिति दीक्षाभ्युपगमवता । जनोपमानेन अन्यलोकतुल्येन भवितव्यमिति ॥४६३।। तदेवान्यजनविलसितमाह पाविज्जइ इह वसणं, जणेण तं छगलओ असत्तो त्ति । न य कोइ सोणियबलिं, करेइ वग्घेण देवाणं ॥४६४॥ 10 प्राप्यते नीयते इह जगति व्यसनं हिंसनरूपं जनेन लोकेन तत् तथाविधविपाकं छगलकः पशुर शक्तोऽसमर्थः प्रतिप्रहारादिकं कर्तुमित्यनेन हेतुना । अत्र व्यतिरेकदृष्टान्तद्वारेण युक्तिमाह-न च नैव कोपि शोणितबलिं करोति व्याघ्रण करणभूतेन देवानां क्षेत्रपाल-कालिकाप्रभृतीनां तस्याप्रधृष्यत्वेनाऽनर्थहेतुत्वात् । एवं जनोपमानेन न भवितव्यमिति गाथाद्वयार्थ इति ॥४६४॥ ___अत एव इहलोकनिरपेक्षतया विवेकिभिः स्वायुषोऽनित्यत्वमेव भावनीयमित्याह वच्चइ खणेण जीवो, पित्तानिलधाउसिभखोभेहिं ।। उज्जमह मा विसीयह, तरतमजोगो इमो दुलहो ॥४६५॥ व्रजति निर्याति क्षणेन स्वल्पकालेन जीवः पित्तानिलयोर्धात्वोः श्लेष्मणश्च क्षोभैः प्रकोपैः करणभूतैरायुषश्च्यवते इत्यर्थः । उद्यच्छत मा विषीदत संयमानुष्ठानेन मा श्लथीभवत । यतस्तरतमयोग उत्तरोत्तरधर्मकारणसामग्रीसद्भावः । अयं वक्ष्यमाणो दुर्लभोऽत्यन्तदुरापस्ततस्तत्प्राप्तौ न युक्तः प्रमादः 20 कर्तुमिति ॥४६५॥ तथा चाह पंचिंदियत्तणं माणुसत्तणं, आरिए जणे सुकुलं । साहुसमागम सुणणा, सद्दहणाऽरोग पव्वज्जा ॥४६६॥ पञ्चेन्द्रियत्वं सम्पूर्णं चक्षुरादिमत्त्वम् । मानुषत्वं मनुष्यजन्म आर्ये मगधादौ जने जनपदे सुकुलं 25 धर्मयोग्यमुग्रादिकम् । साधुसमागमः सुगुरूपास्तिः । श्रवणं धर्मशास्त्राकर्णनम् । श्रद्धानं तत्त्वार्थाधिगमः । आरोग्यं रोगाभावः शीलाङ्गोद्वहनसहत्वमित्यर्थः । प्रव्रज्या विवेकात् सर्वसङ्गत्यागेन भागवती दीक्षा इति अयं सर्वोऽपि तरतमयोगो दुर्लभ इति पूर्वगाथया सम्बन्ध इति ॥४६६॥ एवमुपदिष्टेऽपि यः साम्प्रतेक्षितत्वाद् दुर्मतिर्धर्मं न कुर्यात्, स पश्चात् शोचतीत्याह १. अत्र दृष्टांतद्वारेण - C, P, L अत्र व्यतिरेकदृष्टान्तेन - H, KH अत्र व्यतिरेकमाह तेन युक्तिमाह - B, A| २. तस्य प्रधृ...A, H तस्याप्यधृष्य - P। ३. गाथाया - C, A, BI
SR No.022274
Book TitleUpdeshmala
Original Sutra AuthorN/A
AuthorKirtiyashsuri
PublisherSanmarg Prakashan
Publication Year2013
Total Pages564
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy