________________
5
10
15
[ कणिकासमन्विता उपदेशमाला । गाथा- ४५९] जीवोऽप्येवमयं नित्यो जीवत्वस्याऽविपर्ययात् । पर्यायाणां परावर्तैरनित्यः प्रतिभासते ॥२७॥ अश्रद्दधानो मिथ्याभिनिवेशात्तीर्थकृद्वचः । अपक्रम्य ततोऽन्यत्र व्यहरत्कर्मणो वशात् ॥२८॥ स्वमिवान्यानसद्भूतोद्भावनाभिः स भावयन् । श्रावस्त्यामगमद्भूयस्तस्थौ चैत्ये च कोष्ठके ॥२९॥ पुरि तत्रैव ढङ्काख्यकुलालस्य किलालये । स्वीकृत्योपाश्रयं शुद्धमवात्सीत् प्रियदर्शना ||३०|| कोष्ठके वन्दितुं सूरिं सा गत्वा तां प्ररूपणाम् । श्रुत्वाऽमन्यत तस्यैव मोहेन प्रियदर्शना ||३१|| प्रत्यायाता पुनः शय्यातरप्रत्तमुपाश्रयम् । स्वयं प्ररूपयामास व्रतिनीनां पुरस्तथा ॥३२॥ उपासीनः कुलालोऽपि श्रुत्वा शासनतत्त्ववित् । एकान्तभक्तः श्रीवीरपादानामित्यचिन्तयत् ॥३३॥ अहो मोहनटस्याऽस्य नाटकेषु प्रगल्भता । यतो विप्रतिपन्नेयमपि सेति न लक्ष्यते ॥३४॥
1
वाक्यं जमालिनस्तथ्यं मिथ्या केवलिनः प्रभोः । रसनेत्थं ब्रुवाणानां कणशः किं न शीर्यते ॥३५॥ स्वाध्यायपौरुषीं तस्यां कुर्वाणायामथान्यदा । स्वयमुद्वर्त्तयामास भाण्डान्यापाकशीर्षतः ||३६|| लाघवेन तथा चाग्नेरुच्चिक्षेप कणांस्तथा । तस्याः सङ्घाटिका दाहाद् द्वित्रिच्छिद्रा यथाऽजनि ॥३७॥ तं कुलालमथोवाच श्रावकं प्रियदर्शना । धर्मशील ! कुतो दग्धा सङ्घाटिरखिलाऽपि ॥३८॥ ऊचे ढङ्कोऽथ निःशङ्कोऽपसिद्धान्तः किमुच्यते । दह्यमानं हि वो दग्धं नैवाभ्युपगतं मते ||३९|| क्रियमाणं कृतं ब्रूतामङ्गीकृतजिनागमः । दग्धा सङ्घाटिकेत्येवं वाक्यं वैस्तु न वस्तुसत् ॥४०॥ संबुद्धेति गिरा तस्य प्रोवाच प्रियदर्शना । त्वामेवोपासकं मन्ये सम्यञ्चमनुशासकम् ॥४१॥ ममाऽस्तु दुष्कृतं मिथ्या मिथ्यात्वाऽवटतस्त्वया । युक्त्या पवित्रया ह्येवमुद्धृताऽस्मि वैरत्रया ॥४२॥ पटाञ्चलाप्पितेनाऽपि त्वया दहनकर्मणा । अहो मोहमयो ग्रन्थिर्मम मूलादभिद्यत ॥४३॥ सा चैत्य कोष्ठकं चैत्यमथोवाच जमालिनम् । त्यज मोहं महाभाग ! कुरु भागवतं वचः ॥४४॥ पतेदहर्प्पतेर्बिम्बं द्युपतेः कम्पते गिरिः । गिरो जगद्गुरोरेताः परं विपरियन्ति न ॥ ४५ ॥
25
४५६
20 क्रियमाणं कृतं मूढ ! कथं न मनुषे मुँधा । स्वमेवानुभवं भक्त्या पृच्छात्र छात्रवद् गुरुम् ॥४६॥ आद्यया क्रियया किञ्चिन्न कृतं चेत्तथान्त्यया । क्रियात्वान्न कृतं तर्हि कृतमप्यत्र नो कृतम् ॥४७॥ एवमारब्धमात्रस्य कृतत्वमुपपद्यते । असद्ग्रहं ततस्त्यक्त्वा सतां स्वीकुरु पद्धतिम् ॥४८॥ बहुशो बोधितोऽप्येवं प्रत्यपद्यत नैष तत् । सा चाऽन्यसाधुसाध्वीभिः सार्द्धं श्रीवीरमभ्यगात् ॥४९॥ पुष्कलं कालमेकाकी निह्नवः प्रथमोऽथ सः । जमाली निरतिचारचारित्रस्तपसाऽनयत् ॥५०॥ निह्नुतेरप्रतिक्रान्तः प्रान्ते पक्षमुपोषितः । षष्ठे त्रयोदशाब्ध्यायुस्त्रिदशस्त्रिदिवेऽभवत् ॥५१॥ प्रत्यनीकतया धर्माचार्यादीनां तु तत्र सः । किल्बिषी किल्बिषेष्वेव देवत्वमुपलब्धवान् ॥५२॥
१. वान्यासमुद्भू... P । २. कीर्यते - P। ३. म्यं तमनु... P । ४. सुधा - C । ५. त्वमपि B, C, A, K, D, KH, L, H टि. 1. दत्तं इत्यर्थः । 2. वः युष्माकं तु इति वाच्यम् । 3. युक्तिरेव वरत्रा-रज्जुः, तया । 4. च एत्य - आगत्य । 5. पृच्छ अत्र - 'प्रच्छ्' धातुः, पञ्चमी द्वि० पु० एकवचनरूपः ।