________________
४५४
[कर्णिकासमन्विता उपदेशमाला । गाथा-४५६-४५९] इदमेवाह
सव्वो गुणेहिं गण्णो, गुणाहियस्स जह लोगवीरस्स ।
संभंतमउडविडवो, सहस्सनयणो सययमेइ ॥४५६॥
सर्वः कोऽपि गुणैर्ज्ञानादिभिर्गण्यो गुणिनां धुर्य इति दृष्टान्तमाह-गुणाधिकस्य सत्त्वाद्युत्कटस्य यथा 5 यद्वत् लोके कर्मारिप्रेरकतया प्रसिद्धो वीरो लोकवीरो भगवांस्तस्य, सम्भ्रान्तमुकुटविटपो भक्त्यति
शयादाकुलितकिरीटपल्लवः सहस्रनयनो दशशताक्षः शक्रः सततम् एति आगच्छति वन्दितुमिति शेषः । सूत्रस्य त्रिकालगोचरतादर्शनार्थो वर्तमाननिर्देश इति ॥४५६॥ गुणहीनस्य व्यतिरेकमाह
चोरिक्कवंचणाकूडकवड-परदारदारुणमइस्स ।
तस्स च्चिय तं अहियं, पुणो वि वेरं जणो वहइ ॥४५७॥ 10 चौरिक्कं-चौर्यं स्तेयं, वञ्चना-कार्मिकी विप्रलम्भना, कूटं-वाचनिकं, कपट-मनोगतं शाठ्यं, परदाराः
परकलत्रं तेषु दारुणा पापप्रवृत्ता मतिर्यस्य तस्य चौर्यवञ्चनाकूटकपटपरदारदारुणमतेस्तस्यैव तत्तथाविधमसच्चेष्टितम् अहितमपथ्यम् इह परत्र च । पुनरपीत्यधिकार्थवाची वैरं तस्योपरि क्रोधाध्यवसायं जनो वहति । पापिष्ठोऽद्रष्टव्यमुखोऽयमित्याद्याक्रोशदानात् । तदयं तस्य देवानांप्रियस्य गण्डोपरि पिटकोद्भेद इव
संवृत्त इति ॥४५७॥ 15 गुणस्थितानां दूरोत्सारिता एवैते दोषाः । तत्र सर्वदोषाधारस्याद्यदोषस्यैवाभावमाह
जइ ता तणकंचण-ले?रयणसरिसोवमो जणो जाओ।
तइया नणु वोच्छिन्नो, अहिलासो दव्वहरणम्मि ॥४५८॥ यदि तावदित्यभ्युपगमे तृणकाञ्चनयोर्लोष्टरत्नयोः सदृशी एकाकारा उपमा यस्य स तृणकाञ्चनलोष्टरत्नसदृशोपमश्चेज्जनो विशिष्टः कश्चिज्जातः सम्पन्नः । तदा ननु व्युच्छिन्नस्त्रुटितोऽभिलाषो द्रव्यहरणे 20 परस्वाऽऽदाने कारणाभावादिति ॥४५८॥ तदिदमवेत्य सन्मार्गस्खलनादवधानेन निवर्तनीयम्, अन्यथा वचनीयमशक्यरक्ष्यमित्याह
आजीवगगणनेया, रज्जसिरिं पयहिऊण य जमाली ।
हियमप्पणो करेंतो, न य वयणिज्जे इह पडितो ॥४५९॥
आजीवन्ति द्रव्यलिङ्गेन लोकमित्याजीवका निवास्तेषां गणो गच्छस्तस्य नेता नायको गुरुरित्यर्थः । 25 राज्यश्रियं प्रहाय त्यक्त्वा प्रव्रज्यां प्रपद्य चशब्दादागममधीत्य च जमाली भगवज्जामाता यदीत्यध्याहारात्
हितमात्मनोऽकरिष्यत् । ततो न च नैव वचनीये क्रियमाणं कृतमिति भगवदागमाश्रद्धानो निह्नवोऽयमिति निन्द्यपदवाच्यत्वे इह जने प्रवचने वा अपतिष्यदित्यर्थः ॥४५९॥ अत्र कथानकम्
। [जमालिकथानकम् ॥] क्षत्रियोपपदे कुण्डग्रामनामनि पत्तने । जमालीति कुमारोऽभून्महाक्षत्रियगोत्रभूः ॥१॥
१. व्युच्छिष्ट - PI टि. 1. क्षत्रियकुण्डग्रामे इत्यर्थः ।