________________
[कर्णिकासमन्विता उपदेशमाला । गाथा-४४५-४४६ ]
४५१ सर्वं सम्भूय भोक्तार: पापैवित्तमुपार्जितम् । एकेनैव विषोढव्या मया तु नरकव्यथा ॥२४॥ अथोचुः स्वजनाः पापं सूनायां यद्भविष्यति । वित्तवत् तद्ग्रहीष्यामो विभज्यैव विभागिनः ॥२५॥ महो महोद्यमेनाऽऽद्यमुहूर्ते हन्यतां त्वया । शेषान् हन्मो वयं तेन पापभागोऽस्तु तेऽल्पकः ॥२६॥ तेषामित्याग्रहादेत्य सूनायां सुलसोऽलसः । दयार्द्रया दृशाऽपश्यन्महिषं महितं पुरः ॥२७॥ अरसः परशुं पित्र्यं कलयित्वा किल स्खलन् । निजघान निजां जवां मूर्च्छन्नथ पपात च ॥२८॥ शनैः संज्ञां स चासाद्य जगाद स्खलदक्षरम् । कठोरेण कुठारस्य प्रहारेणादितोऽस्मि हा ॥२९।। वेदनां मत्त आदत्त विभज्य मम बन्धवः! । अद्य सद्यः प्रपद्याऽपि लोकवत् किमुदासत ॥३०॥ पात पात रुजां लात किमुपेक्ष्ये तटस्थितैः । नरकार्तिषु दायाद्यं प्रत्येतव्यं क्व तत्र वः ॥३१॥ प्रत्यूचुः सुलसं तेऽपि बाष्पाविलविलोचनाः । क्व शक्या वेदनाऽऽदातुं मुग्धवत् किं विमुह्यसि ॥३२॥ निर्व्याजं व्याजहाराऽथ सुलसो वेदनामिमाम् । यदा नादातुमीशिध्वे नरकार्तेः क्व तत्कथा ॥३३॥ 10 कुटुम्बार्थमकृत्यानि कृत्वा यास्याम्यधः स्वयम् । बन्धवोऽर्थान् ग्रहीष्यन्ति भागेऽनर्थो ममाऽखिलः ॥३४॥ हिंसां किं साम्प्रतं कुर्यामहं विद्वानिदं फलम् । शुनी पुनीते स्कन्धाधिरोपिता पैतृकीति किम् ॥३५॥ तदाऽभयकुमारोऽपि तत्रागात्तस्य पीडया । प्रतिजागरणं कर्तुं सुलसस्य विवेकिनः ॥३६॥ तमाश्लिष्याऽभयो वाचमूचे धन्योऽसि साधु भोः । श्रुतं सर्वं भवद्वृत्तं वयं मोदामहे त्वया ॥३७॥ न स्तुते कस्तु ते वृत्तं त्वमेको मण्डनं भुवः । अपि काचकुलोत्पन्नो यस्त्वं मुक्ताफलायसे ॥३८॥ 15 एवं धार्मिकवात्सल्यादनुमोद्याऽभये गते । सुलसोऽभूद् दृढो धर्मे सत्सङ्गाद्वर्द्धते हि धीः ॥३९॥ स्वीकृत्य मृत्युमपि वर्जितजन्तुबाधः, कः कालसौकरिकसूनुरिव त्रिलोक्याम् । बन्धून् विधूय विबुधो जिनधर्मवेदी; नेदीयसीमकृत मुक्तिवर्धू य एषः ॥४०॥ [वसन्ततिलकावृत्तम्]
इति सुलसकथानकम् ॥ तदित्थं विवेकिविलसितमुक्त्वा अविवेकिजनाचरणमाह
मोलगकुदंडगादामगाणि, उच्चूलघंटियाओ य ।
पिंडेइ अपरितंतो, चउप्पया नत्थि य पसू वि ॥४४६॥ मौलककुदण्डको दामकानि अवचूलं घण्टिकाश्चेति । तत्र मौलको बन्धार्थं निखातः कीलकः । कुदण्डक-उभयतश्छिद्रप्रोतबन्धनं काष्ठम् । दामकं-पादबन्धनम् । अवचूलघण्टिके सुप्रतीते । चशब्दाच्चतुष्पदोचितानीतराण्येवंविधानि उपकरणानि पिण्डयति अपरितृप्तो मीलयति अविश्रान्तः तस्य परं सत्तायां 25 चतुष्पदाः पशुरपि अजाऽपि नास्ति न विद्यत एव । आसतां गवाश्वादय इत्यपिशब्दार्थ इति दृष्टान्तः ॥४४६॥
१. सर्वे - C, L, B | २. नरके - C, L, H, B | ३. नाद्ये - C। ४. वधूर्यदेषः - P। ५. आपिंडेइ - P। टि. 1. दायादस्य भाव: दायाद्यम्, तम्।