________________
[ कर्णिकासमन्विता उपदेशमाला । गाथा- ४४१-४४५ ] अथैतां चतुर्भङ्गीं सूत्रकार एव योजयन्नाह
छज्जीवकायविरओ, कायकिलेसेहिं सुगुगुरुएहिं । न हु तस्स इमो लोगो, हवइ अ सेगो परो लोगो ॥४४१ ॥
४४९
षट्जीवनिकायेभ्यस्तदारम्भपरित्यागाद्विरतः संयतः कायक्लेशैः केशलोचनाग्न्यमलधारणमासक्षपणादिभिः सुष्ठुगुरुभिर्बृहत्तमैर्यो वर्त्तते, इहलोकनिरपेक्षः परलोकैकबद्धबुद्धिस्तपोधनः न हु नैव तस्यायं 5 लोको भवति परित्यक्तत्वात् भवति चेति चस्याऽवधारणार्थत्वात् भवत्येव से तस्य एक एव परोऽनुत्तरविमानसिद्धिगमनादिर्लोकः 5: उत्कृष्टस्य तपसस्तत्फलप्रदत्वादिति । अनेन पाश्चात्यगाथोक्तास्त्रयोऽन्येऽपि भङ्गकाः सूचिता द्रष्टव्याः । ते च स्वधिया योज्याः सुगमाश्चेति ॥४४१॥
अथोद्दिष्टार्थप्रतिपादने क्रमोऽतन्त्रमिति न्यायं दर्शयन् आद्यगाथोक्तान् भङ्गान् योजयतिनरयनिरुद्धमईणं, दंडियमाईण जीवियं सेयं ।
बहुवाम्म विदेहे, विसुज्झमाणस्स वरमरणं ॥ ४४२॥
नरके निरुद्धा गत्यन्तरान्निवर्त्य तत्रैव स्थापिता मतिर्यैस्तेषां दण्डिकादीनां पापिष्ठराजप्रभृतीनां जीवितं श्रेयः, तदात्वेन सुखावाप्तेः । तथा बह्वपाये रोगाद्यपायाक्रान्तेऽपिशब्दात् तदुद्भूतवेदनासहिष्णोरपि देहे विशुद्धयमानस्य धर्मादिध्यानान्निर्मलीभवतो वरं मरणं तथाविधस्य सुगतिगमनादिति ॥४४२॥
तथा
तवनियमसुट्ठियाणं, कल्लाणं जीवियं पि मरणं पि । जीवंतज्जति गुणा मया वि पुण सुग्गई जंति ॥ ४४३ ॥
तपोनियमसुस्थितानां शुद्धगुणाध्यासितानां कल्याणं जीवितमपि मरणमपि । कुत इत्याहजीवन्तोऽर्जयन्ति वर्द्धयन्ति ते गुणान् मृता अपि सन्तः पुनः सुगतिं स्वर्गापवर्गरूपां यान्ति प्राप्नुवन्ति
||४४३|| तथा
अहियं मरणं अहियं च जीवियं पावकम्मकारीणं । तमसंमि पडंति मुआ, वेरं वडूंति जीवंता ॥४४४॥
अहितं मरणम् अहितं च जीवितं पापकर्मकारिणां चौरादीनाम् ते हि तमसि नरकाख्ये पतन्ति मृताः । वैरं तद्धेतुत्वात् पापं वर्द्धयन्ति च जीवन्त इति द्विधाऽप्यनर्थस्तेषामिति । अत एव सतामेष निश्चयः -यदाह" अकर्त्तव्यं न कर्त्तव्यं प्राणैः कण्ठगतैरपि ।
कर्त्तव्यमेव कर्त्तव्यं तदधीना हि सद्गतिः " ॥ [ ] इति ॥ ४४४ ॥ इदमेवाह
अवि इच्छंति य मरणं, न य परपीडं करिंति मणसा वि ।
जे सुवियसुगइपहा, सोअरिअसुओ जहा सुलसो ॥ ४४५ ॥
अपि सम्भाव्यते एतत् सेन्त इच्छन्ति मरणं न च परपीडां कुर्वन्ति मनसाऽपि आस्तां वाक्काया
१. स एगो - P। २. सतां - A, B, C, D, K, H, L, P
10
15
20
25