SearchBrowseAboutContactDonate
Page Preview
Page 491
Loading...
Download File
Download File
Page Text
________________ ४४८ [कर्णिकासमन्विता उपदेशमाला । गाथा-४४०] अथ तीर्थकृताऽवाचि पूर्वं काचिन्निकाचिता । कर्मावलिस्त्वया राजन् ! यया स्यादेव दुर्गतिः ॥७१।। शुभाशुभानां भूनाथ ! पूर्वनिर्मितकर्मणाम् । न भुक्तिमन्यथाकर्तुं वयं स्वयमपीश्वराः ॥७२।। भविष्यन्त्यां जिनचतुर्विंशत्यां प्रथमो जिनः । त्वं भावी पद्मनाभस्तत्कि विषीदसि सीदसि ॥७३॥ पुनः स्माह नृपः स्वामिन् ! कोऽप्युपायः समर्प्यताम् । महानरककूपान्तःपातिनो मेऽवलम्बनम् ॥७४॥ स्वाम्यूचे कपिला दासी याऽस्ति ते प्रतिचारिका । साधुभ्यो दापयसि चेद्दानं सानन्दया तया ॥७५॥ यदि मोचयसे शूनां कालशूकरिकेण वा । नरको नरकोटीर ! तदयं जीयते त्वया ॥७६॥ इदं हृदन्तर्विन्यस्य विनम्य च जिनं नृपः । चचालाऽचलसम्यक्त्वतत्त्ववृत्तिर्गृहं प्रति ॥७७॥ तत्सम्यक्त्वपरीक्षार्थं दर्दुराङ्केन वर्त्मनि । राज्ञः कैवर्तवद्वर्त्तमानो मुनिरदर्श्यत ॥७८॥ माऽर्हत्प्रवचनस्याऽस्तु वचनीयत्वमित्ययम् । साम्नवाऽऽकार्य तं साधु विनिवार्य गृहं ययौ ॥७९॥ 10 साध्वीं सोऽदर्शयद्गर्भनिर्भराङ्गीमथाऽमरः । धाम्नि शासनभक्तस्तां सञ्जुगोप स गोपतिः ॥८०॥ साधु साध्वितिगीर्देवः स्फुटीभूयाऽथ सोऽब्रवीत् । राजन् ! शक्रेण सम्यक्त्वे यादृगुक्तोऽसि तादृशः ॥८१॥ इन्दोरिव रुचिच्छेदैनिर्मितं निर्मलच्छविम् । हारं प्रदाय भूपाय तथा गोलकयोर्द्वयम् ॥८२॥ हारं सन्धास्यते योऽमुं विशीर्णं स विपत्स्यते । इत्युदित्वा च देवोऽयं दीप्तरोदास्तिरोदधे ॥८३॥ अथ हारं महारम्यं चिल्लणायै ददौ नृपः । तत्तु नन्दाभिधानायै प्रियायै गोलकद्वयम् ॥८४॥ 15 दानमीदृशमेव स्यान्मादृशामिति नन्दया । स्तम्भेनाऽभञ्जि तत् कोपलोलया गोलकद्वयम् ॥८५।। कृतेन्दुताडं ताडङ्कयुगमुद्गतमेकतः । प्रभाभिरद्वयं क्षौमद्वयं गोलकतोऽन्यतः ॥८६॥ तदचिन्तितलब्ध्वाऽतिदुर्लभं रत्नमण्डनम् । दृष्ट्वाऽनभ्रसुधावृष्टिमिव नन्दाऽप्यमोदत ॥८७॥ साधुषु श्रद्धया भिक्षां यच्छ भिक्षां हरामि ते । राज्ञेत्यथोदिता कोपकपिला कपिलाऽवदत् ॥८८॥ हेमदेहामदेहां वा कुरु मां न करोम्यदः । सन्तोऽकृत्यं न कुर्युः श्रीवरणे मरणेऽपि वा ॥८९॥ 20 तां विसृज्याऽथ भूपालः कालशूकरिकं जगौ । मुञ्च पापोचितां शूनां तवाऽनूनां श्रियं ददे ॥९०॥ सोऽप्यूचे स्वां श्रियं भुझ्व सोऽहं मोपकारकम् । कुलक्रमागतं धर्मं मुञ्चेऽमुं चेन्निये ततः ॥११॥ क्व कर्ताऽस्मिन्नसौ शूनां पशूनां विरहादिति । क्षिप्त्वाऽन्धकूपे भूपेन दधेऽहोरात्रमत्र सः ॥१२॥ गत्वा नत्वा च राज्ञाऽर्हन् व्यज्ञपीदं यदद्य सः । शूनाऽऽग्रहमहोरात्रमात्रमत्याजि सौनिकः ॥१३॥ जगौ जगद्गुरुर्भूप ! कूपमध्यगतोऽपि सः । महिषाणामहन् पञ्चशती कृत्वाऽपि मृन्मयीम् ॥१४॥ 25 तन्निरूप्य स्वयं भूपो भाविदुर्गतिदुःखितः । भविष्यत्तीर्थनाथत्वप्रीतिप्रत्याशया स्थितः ॥१५॥ इति दर्दुरदेवकथानकम् ॥ १. दीप्तरोधा... D, दीप्तिरोची...C, दीप्तिरोदा - KH | २. श्रीहरणे - C, L श्रीचरणे - P, KH, H | ३. मुंचेमुंचेन्प्रिये तत: L, मुंचेमुंचेन्नियेत स:- B मुंचन्मुंचे म्रिये ततः - D, मुंचमुचेम्रिये ततः - KI ४. सौनृपः P। टि. 1. कैवर्त्तः - मात्स्यिकः । 2. रुचि: कान्तिः, तस्याः छेदः खण्डः तैर्निर्मितम् । 3. अस्मिन् अन्धकूपे इत्यर्थः ।
SR No.022274
Book TitleUpdeshmala
Original Sutra AuthorN/A
AuthorKirtiyashsuri
PublisherSanmarg Prakashan
Publication Year2013
Total Pages564
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy