________________
४४७
[कर्णिकासमन्विता उपदेशमाला । गाथा-४४०]
अथाऽतितृषितो वारि वारीति चिरमारटन् । द्वारपालभयात् द्वारमत्यजन् तत्यजेऽसुभिः ॥४३॥ भेकतामेकतानाम्बुध्यानाधानमृतेर्वशात् । तत्र वाप्यामवाप्याऽसौ सलिलैर्व्यलसच्चिरम् ॥४४॥ कदापि विश्वविश्वासपरमश्चरमो जिनः । पुनस्तत्पत्तनोद्यानमेदिन्यां समवासरत् ॥४५॥ स्त्रीणां जलहतां भेकः स विवेकभृतां मुखात् । वीरं जिनं वने नन्तुं याम इत्यशृणोद् गिरम् ॥४६॥ तामसौ स्वामिनामोक्तिमूहमानो हरिर्मुहुः । त्रुट्यत्कुकर्मावरणो जातिस्मरणमासदत् ॥४७॥ दध्यौ च द्वारि मां मुक्त्वा द्वा:स्थो नन्तुं जगाम यम् । वनं वीरः स एवाऽऽगात् तं नन्तुं किं न याम्यहम् ॥४८॥ इति निर्गत्य वापीतो वीतरागानुरागभाग् । चचालाऽत्युच्छलन् भेको वेगश्रीकेलिकन्दुकः ॥४९॥ जिनं नन्तुं यतो राज्ञः श्रेणिकस्य चमूहयैः । तदैष दर्दुरः क्षुण्णो दर्दुराङ्कः सुरोऽभवत् ॥५०॥ पादोपान्तलुलद्रूपवेणिः श्रेणिकभूपतिः । तदाऽऽससाद तीर्थेशदेशनासदनं सुधीः ॥५१॥ सहाऽभयकुमारेण धर्मानूनेन सूनुना । स नत्वेशमुपाविक्षद्राजा राजगृहेश्वरः ॥५२॥ कृष्टा विभुविभूतीनां चित्रैस्तत्रैव संसदि । पापीयांसोऽप्युपाजग्मुः कालशौकरिकादयः ॥५३॥ अथ विश्वाघवृक्षौघोन्मूलनस्थूलपूरया । श्रीसर्वज्ञः सरस्वत्या सार्वया देशनां व्यधात् ॥५४॥ तदा कोऽप्यसदगुल्यङ्गुष्ठः कुष्ठगलत्तनुः । सर्वसाधारणं नाथं नत्वोपान्तमुपाविशत् ॥५५॥ कुष्ठी विशङ्कः श्रीखण्डद्रवपूरैरिव प्रभोः । चरणौ चर्चयामास भूयः पूयरसैरसौ ॥५६॥ तन्निदध्यौ च दध्यौ च श्रेयोधीः श्रेणिकः क्रुधा । प्रभोरभक्तो वध्योऽयं सभामध्योत्थितः खलु ॥५७॥ 15 नाथेनाऽथ क्षुते कुष्ठी द्राग् म्रियस्वेत्युवाच सः । विश्वरञ्जी चिरंजीवेत्याचष्ट श्रेणिकक्षुते ॥५८॥ क्षुतेऽभयकुमारेणाऽब्रवीज्जीव म्रियस्व वा । मा जीव मा म्रियस्वेति स जगौ सौनिकक्षुते ॥५९॥ प्रभुं प्रति म्रियस्वेति गिरा रोषस्थिराशयः । ग्राह्यो बाह्योत्थितोऽसावित्यादिशद्भूपतिर्भटान् ॥६०॥ देशनान्ते स नत्वेशमुत्थितः क्षमापते टैः । अरोधि क्रोधिभिः कुष्ठी मक्षिकाभिरिवाभितः ॥६१॥ दिव्यमुत्पाद्य सद्योऽङ्गं तेषां ग्रहणधीजुषाम् । अभाग्यानां निधिरिवाऽभूददृश्यः स पश्यताम् ॥६२॥ 20 तत्परिज्ञाय राज्ञाऽथ विस्मितेन स्मितेन च । स्वरूपं कुष्ठिनस्तस्य पृष्टोऽभाषत सर्ववित् ॥६३॥ एको भेकोऽस्मदानत्यै प्रधावन् ह्यस्तने दिने । हतस्त्वत्तुरगैर्जज्ञे दर्दुराङ्काभिधः सुरः ॥६४॥ स देवः सद्य एवास्मान्नमस्कर्तुं तदागतः । तव श्रद्धापरीक्षार्थं विक्रियाश्च ततान ताः ॥६५॥ घनपूयद्रवभ्रान्तिकर्मठैश्चर्मचक्षुषाम् । स दिव्यचन्दनरसैरसिञ्चन्नः पदौ तदा ॥६६॥ मृत्युः शिवाय नस्तन्नः स म्रियस्वेत्यभाषत । त्वां जीवेत्यतिधर्मिष्ठमत्रामुत्र तु नारकम् ॥६७॥ 25 जीवन् धर्मं भजेन्मृत्वा विमानं यात्यनुत्तरम् । जीव म्रियस्व वेत्यूचे तेनायमभयोऽभयम् ॥६८॥ जीवन् करोति पापानि मृतो यास्यति दुर्गतिम् । मा जीव मा म्रियस्वेति कालशूकरमब्रवीत् ॥६९॥ अथ नत्वाऽभ्यधाद्भूपः प्रभो ! त्वयि सति प्रभौ । नरको नरकोटीनां मुक्तिदायिन् ! कथं मम ॥७०॥
१. नाधीन - KH | २. भृतां - A, KH कृतं K, D द्वतां - H। ३. तदा विवेश - KH | ४. सार्थया - BI