________________
४४३
[कर्णिकासमन्विता उपदेशमाला । गाथा-४२९-४३४]
षड्जीवनिकायमहाव्रतानां परिपालनया यतिधर्मो भवति यदि पुनस्तानि षड्जीवनिकायमहाव्रतानि यतिरपि न रक्षति भण त्वं ब्रूहि को नाम स धर्मो न कश्चिदपीति भावः ॥४२९।। व्रतान्त:पातिनामपि षड्जीव-निकायानां पृथग्ग्रहणं तद्रक्षणस्य प्राधान्यख्यापनार्थमित्याह
छज्जीवनिकायदयाविवज्जिओ नेव दिक्खिओ न गिही ।
जइधम्माओ चुक्को, चुक्कड़ गिहिदाणधम्माओ ॥४३०॥ षड्जीवनिकायदयाविवर्जितः तदुपमईको नैव दीक्षितः संयमाभावात्, न गृही यतिलिङ्गधारणात्, स चैवं यतिधर्माद् भ्रष्ट एव भ्रश्यते गृहिदानधर्माद् गृहिणां हि दानधर्मो गरीयान्, स च साधुगोचरः श्रेयस्करः, सुसाधूनां च गृहस्थसम्बन्धि कल्पते, न पुनस्तत्सम्बन्धि किमपि कल्पते इति भावः ॥४३०॥ .
यो यावत् करिष्यते तस्य तावान् धर्मः सम्पूर्णगुणास्तु दुर्लभा इत्यालम्ब्य विचित्रविरतिभाजा श्रावकेणेव यतिनाऽपि यावता तावताऽपि न सन्तोष्टव्यम् । तस्याऽभ्युपगतसर्वविरतिरूपचारित्रस्यैकदेशविसंवादेनापि 10 प्रत्युताऽपायं दृष्टान्तेनाह
सव्वाओगे जह कोइ, अमच्चो नरवइस्स घित्तूणं ।
आणाहरणे पावइ, वहबंधणदव्वहरणं च ॥४३१॥ सर्वानायोगान् समस्ताऽधिकारान् यथा कश्चिदमात्यः प्राप्तप्रसादः सचिवो नरपते राज्ञः सम्बन्धिनो गृहीत्वा स पश्चाज्जितकाशी । आज्ञाहरणे नृपादेशातिक्रमे प्राप्नोति वधं ताडनं कशादिभिर्बन्धनं रज्ज्वादिभि- 15 द्रव्यहरणं सर्वस्वच्छेदं चशब्दान्मारणं च । अत्र पूर्वयोरनुस्वारलोपः त्रयाणामपि द्वन्द्वैकत्वं वा इति ॥४३१॥ दाान्तिकमाह
तह छक्कायमहव्वय-सव्वनिवित्तीउ गिहिऊण जई।
एगमवि विराहतो, अमच्चरन्नो हणइ बोहिं ॥४३२॥ यथा स मन्त्री तथा षट्कायमहाव्रतसर्वनिवृत्तीः षट्कायमहाव्रतेषु सर्वथा रक्षणानुष्ठानाभ्यां निवृत्तयो 20 नियमास्तान् गृहीत्वा यतिरेकमपि कायं व्रतं वा विराधयन् अमादीनां शक्रादीनां राज्ञोऽर्हत्भट्टारकस्य भगवतः सम्बन्धिनीं हन्ति बोधि कारणे कार्योपचारादाज्ञाम्, तद्द्वारेण वा प्रेत्य जिनधर्माऽवाप्तिरूपां बोधि खण्डयतीति ॥४३२॥
तो हयबोही पच्छा, कयावराहाणुसरिसमियममियं ।
पुणवि भवोअहिपडिओ, भमइ जरामरणदुग्गम्मि ॥४३३॥ ततो हतबोधिः पश्चात्कृतापराधानुसदृशं विहितातिचारानुरूपं इमं ज्ञानिनां प्रत्यक्षममितमनन्तं पुनरपि भवोदधिं पतितः सन् भ्रमति जरामरणदुर्गे इति ॥४३३॥ स चेहलोकेऽपि स्वपरापकारीत्याह
जइयाऽणेणं चत्तं, अप्पाणयं नाणदंसणचरित्तं । तइया तस्स परेसुं, अणुकंपा नत्थि जीवेसु ॥४३४॥
25
१. यतनापि - B, A| २. कषाय - AI