________________
४४४
[कर्णिकासमन्विता उपदेशमाला । गाथा-४३४-४३८] यदानेन त्यक्तमात्मीयं ज्ञानदर्शनचारित्रं तदा तस्य तत्त्वतस्त्यक्तात्मनः । परेषु अनुकम्पा नास्ति जीवेष्विति । तथा चाहुः
"परलोकविरुद्धानि कुर्वाणं दूरतस्त्यजेत् ।। आत्मानं योऽतिसन्धत्ते सोऽन्यस्मै स्यात्कथं हितः" ॥१॥[ ] ॥४३४॥ छक्कायरिऊण अस्संजयाण, लिंगावसेसमित्ताणं ।
बहुअस्संजमपभवो, खारो मइलेइ सुट्टयरं ॥४३५॥ षट्कायरिपूणां तदुपमईकानाम् असंयतानाम् अविरतदण्डत्रयाणां लिङ्गावशेषमात्राणां च बहुभूरि असंयमप्रभवस्तत्कार्यत्वादशुभाश्रवरूप एव क्षार इव तिलादीनां क्षारो मलिनयति पङ्कयति आत्मानं सुष्ठुतरम्
अतिशयोत्कर्षेणेतीदमत्राकूतम्-यथा क्षारेण वस्त्रादिकं मलिनं क्रियते एवमशुभाश्रवेण जीवोऽपि इति ॥४३५॥ 10 वेषधारणेऽपि सति पापसम्बन्ध इति च नाऽसम्भावनाहमित्याह
किं लिंगविड्डरीधारणेण, कज्जम्मि अट्ठिए ठाणे ।
राया न होइ सयमेव, धारयं चामराडोवे ॥४३६॥ . किं लिङ्गविड्डरीधारणेनेति किं वेषमुद्राडम्बराधानेन कार्ये चारित्ररूपे अस्थिते असम्प्राप्ते स्थानमवकाशं द्वितीयार्थेऽत्र सप्तमी, अयमत्र भाव:-कार्ये चारित्रे स्थानमवकाशम् अस्थिते अप्राप्ते कि 15 वेषपाखण्डेन प्रयोजनं ? निष्फलत्वात् । तथाहि-कार्ये आज्ञैश्वर्यरूपे अवकाशमप्राप्ते राजा न भवति ।
स्वयमेव धारयंश्चामराटोपांश्च छत्रध्वजादीन् द्वन्द्वे तान्, यथा राज्यचितैरन्यैः सद्भिरपि आज्ञैश्वर्येण विना न राजा, तथाऽयमपि वेषमात्रेण संयमशून्येन न व्रती इति ॥४३६॥ इदमेवान्वयेन साधौ योजयन्नाह
जो सुत्तत्थविणिच्छयकयागमो, मूलउत्तरगुणोहं ।
उव्वहइ सयाऽखलिओ, सो लिक्खइ साहुलेक्खम्मि ॥४३७॥ __यः सूत्रार्थविनिश्चयेन श्रुतसारावसायेन कृतोऽभ्यस्त आगमः प्रवचनं येन स सूत्रार्थविनिश्चयकृतागमः सन् मूलोत्तरगुणौघं व्रतादि-पिण्डविशुद्धयादिगुणसङ्घातम् उद्वहति सम्यक् क्रियया यावज्जीवं बिभर्ति । सदाऽस्खलितो निरतिचारः स एवंविधो लिख्यते साधुलेख्याङ्के साधुगणनायां तस्य रेखा दीयते नाऽन्यस्येत्यर्थः ॥४३७॥ व्यतिरेकमाह
बहुदोससंकिलिट्ठो, नवरं मइलेइ चंचलसहावो ।
सुट्ट वि वायामंतो, कायं न करे किंचि गुणं ॥४३८॥ बहुदोषैरज्ञानक्रोधाद्यैः सङ्क्लिष्टो विबाधितः सन्, नवरं केवलं मलिनयत्यात्मानमिति शेषः । चञ्चलस्वभावो विषयलम्पटप्रकृतिः । सुष्ठ्वपि व्यायामयन् क्लेशयन् अप्रेक्षापूर्वकारितया कायं देहं न 30 करोति किञ्चित्कर्मक्षयादिकं गुणमिति ॥४३८॥
१. वचनात्संभा... D, K वचनासंभा...B वचनसंभा...A । २. ब्रवीति - K, KH | ३. गुणेहिं - B, K, KH, DI
20
25