________________
४४२
नाणाहियस्स नाणं, पुज्जइ नाणा पवत्तए चरणं ।
जस्स पुण दुह एक्कं पि नत्थि तस्स पुज्जए काई ? ॥४२४॥
ज्ञानाधिकस्य सम्बन्धि ज्ञानं पूज्यते । यतो ज्ञानात्प्रवर्त्तते चरणं तज्जन्यत्वात्तस्य । यस्य पुनर्द्वयोर्ज्ञानाचरणयोरेकमपि नास्ति, तस्य पुरुषस्य किं पूज्यते ? न किञ्चित्, एतेन व्यवहारतो ज्ञानं 5 चरणरहितमपि स्याच्चरणं तु ज्ञानेन विना नास्तीत्यतो ज्ञानहीन उभाभ्यामपि हीन एवेति ॥ ४२४॥ तत्त्वतस्तु ज्ञानादीनां मिथः सापेक्षाणामेव साधकत्वं न निरपेक्षाणामित्याह
नाणं चरित्तहीणं, लिंगग्गहणं च दंसणविहीणं ।
25
[ कर्णिकासमन्विता उपदेशमाला । गाथा- ४२४-४२९]
संजमहीणं च तवं, जो चरइ निरत्थयं तस्स ॥४२५ ॥
ज्ञानं चारित्रहीनम् लिङ्गग्रहणं च रजोहरणादिधारणं दर्शनविहीनं श्रद्धानशून्यम्, संयमहीनं च तपो
10 यः सर्वमप्येतच्चरति सेवते, निरर्थकं तस्य सर्वमिदं मोक्षाऽसाधकत्वादिति ॥४२५॥
30
.
ज्ञानस्याऽपि चारित्रहीनस्य परमार्थतोऽपार्थकत्वमेवेति सदृष्टान्तमाह
जहा खरो चंदणभारवाही, भारस्स भागी न हु चंदणस्स ।
एवं खु नाणी चरणेण हीणो, नाणस्स भागी न हु सुग्गईए ॥४२६॥
यथा खरश्चन्दनभारवाही सन् भारस्यैव भागी भवति । न हु नैव चन्दनस्य विलेपनकृत्यार्थमपि स 15 चितादिभस्मन एव भागीति भावः । एवं खु एवमेव ज्ञानी चरणेन हीनो ज्ञानस्य भागी न हु नैव सुगतेर्मोक्षलक्षणाया भागीति ॥ ४२६ ॥ लिङ्गिनो दर्शनशून्यस्य लक्षणमाह
सम्प्रकटप्रतिसेवी निःशूकतया लोकसमक्षं प्रतिसेवितुं संयमप्रतिकूलं श्रयितुं शीलमस्येति स तथा । 20 कायेषु षट्सु रक्षणेन, व्रतेषु पञ्चसु अनुष्ठानेन, यो न उद्यच्छति नोद्यमं कुरुते । अत एव प्रवचनपातनपरमो विहिताऽकरणनिषिद्धाऽऽचरणाभ्याम् आगमलाघवप्रधानः । सम्यक्त्वं पेलवं तस्य युक्त्या तदभाव एवेति भावः ॥ ४२७ ॥ तपस्यपि संयमहीने दोष एवेत्याह
संपागडपडिसेवी, काएसु वएसु जो न उज्जमइ ।
पवयणपाडणपरमो, सम्मत्तं पेलवं तस्स ॥ ४२७ ॥
चरणकरणपरिहीणो, जइवि तवं चरइ सुटु अइगरुयं । सो तिल्लं व किणंतो, कंसियवोद्दो मुणेयव्वो ॥४२८॥
चरणकरणपरिहीनः संयमशून्यो यद्यपि तपश्चरति विधत्ते सुष्ठ अतिगुरुकं चतुर्मासक्षपणादि स तैलमिव क्रीणन् कांस्येन निर्वृत्तः कांस्यिकः आदर्शस्तत्प्रधानो वोद्रो ग्रामेयको मूर्खः यो हि दर्पणतलेन तिलान् मित्वा दत्त्वा च तेनैव च मित्वा तैलं गृह्णाति । तद्वदेव संयमबाह्यतप: कर्त्तापि मूर्ख एवेति मन्तव्यः । स्वल्पेन बहुहारणादिति ॥ ४२८ ॥ तथाहि
१. विहूणं - A
छज्जीवनिकायमहव्वयाण, परिपालणाइ जइधम्मो ।
जइ पुण ताइं न रक्खड़, भणाहि को नाम सो धम्मो ? ॥४२९ ॥