________________
[कर्णिकासमन्विता उपदेशमाला । गाथा-४१९-४२३]
४४१ विज्ञायन्ते बहुविधानि नानारूपाणि तानि सम्यग् ज्ञानहेतुतां प्रपद्यन्ते । स्वबुद्ध्या तु गृहीतानि विगोपयन्ति । तदुक्तम्
"न हि भवति निर्विगोपकमनुपासितगुरुकुलस्य विज्ञानम् ।
प्रकटितपश्चात्भागं पश्यत नृत्तं मयूरस्य" ॥१॥ [ ] न चक्षुर्मात्रानुसृतानि चक्षुर्मात्रेण यावदेव दृष्टं तावदेवाऽनुसरणं स्वबुद्ध्या विधाय गृहीतानीत्यर्थः ॥४१९॥ 5 तथाहि
जह उज्जमिउं जाणइ, नाणी तवसंजमे उवायविऊ ।
तह चक्खुमित्तदरिसण-सामायारी न याणंति ॥४२०॥ यथा उद्यन्तुं जानाति ज्ञानी तपःसंयमयोरुपायवित् तत्कारणकुशलस्तथा तेन प्रकारेण चक्षुर्मात्रदर्शनेन परानुष्ठानालोकनेनागमं विना सामाचारी प्रवृत्तिर्येषां ते तथाविधा न जानन्ति उद्यन्तुम् अनुष्ठानं 10 कर्तुमिति ॥४२०॥ एवं च श्रुत्वा यः क्रियाविकलो ज्ञानस्यैव प्राधान्येन परितुष्येत्तं प्रत्याह
सिप्पाणि य सत्थाणि य, जाणतो वि हु न जुंजई जो उ।
तेसिं फलं न भुंजइ, इय अजयंतो जई नाणी ॥४२१॥ शिल्पानि च शास्त्राणि च जानन्नपि परमार्थतोऽज्ञानः सन् हुनिश्चये न युनक्ति यस्तु क्रियया न 15 व्यापारयति । स तेषां फलं द्रव्यलाभादिकं न भुङ्क्ते इति एवम् अयतमानोऽनुष्ठानशून्यो यतिर्ज्ञानी सन्नपि मोक्षलक्षणं फलं नाप्नोतीति ॥४२१॥ ज्ञानेऽपि सति क्रियावैकल्यं न चाऽसम्भाव्यमित्यत आह
गारवतियपडिबद्धा, संजमकरणुज्जमंमि सीयंता । निग्गंतूण गणाओ, हिंडंति पमायरण्णम्मि ॥४२२॥
20 ज्ञानिनोऽपि सन्तो यतो गौरवत्रयप्रतिबद्धा ऋद्धि-रस-सातेष्वादरेण सक्ताः सन्तः । संयमकरणोद्यमे पृथिव्यादिरक्षणोत्साहे सीदन्तः शिथिलीभवन्तः । केचिन्निर्गत्य गणाद् गच्छात् यथेष्टं हिण्डन्ते प्रमादानामेव विषयकषायादीनां चौरश्वापदानामिवाऽऽस्पदतया अरण्ये संसारे, तदुच्छेदकचारित्रवैकल्यादिति भावः ॥४२२॥
नन्वेको मनाक् क्रियाविकलो ज्ञानी, द्वितीयश्च मनाक् अज्ञानो विशिष्टक्रियः, कतरस्तयोः श्रेयानित्याह
नाणाहिओ वरतरं, हीणो वि हु पवयणं पभावितो।
न य दुक्करं करितो, सुटु वि अप्पागमो पुरिसो ॥४२३॥ ज्ञानाधिको वरतरम् आविष्टलिङ्गत्वादिति प्रधानो हीनोऽपि चारित्रेण हुनिश्चये प्रवचनं जिनशासनं प्रभावयन् वादव्याख्यानादिभिः प्रभासयन् । न च नैव दुष्करं मासक्षपणादि कुर्वन् सुष्ठ्वपि अल्पागमस्तुच्छश्रुतः पुरुषः सन् वरतरमिति ॥४२३॥
25
30
१. निगृही... DI