________________
४४०
[कर्णिकासमन्विता उपदेशमाला । गाथा-४१६-४१९] एतदेव दृष्टान्तेन दृढयति
जह दाइयम्मि वि पहे, तस्स विसेसे पहस्सऽयाणंतो ।
पहिओ किलिस्सइ च्चिय, तह लिंगायारसुयमित्तो ॥४१६॥
यथा केनिचिद्दिङ्मात्रतया दर्शितेऽपि पथि तस्य विशेषान् ग्रामतदन्तरालसमविषमान् पथो मार्गस्य 5 अजानानः पथिकः क्लिश्यत एव तृष्णा-बुभुक्षा-चौरादिभिर्बाध्यते एव तथा लिङ्गाचारश्रुतमात्रः क्लिश्यते बहुभिरपायैर्बाध्यते । तत्र लिङ्गम् -रजोहरणादिर्वेषः, आचार:-स्वधियानुष्ठानं श्रुतमात्रं -तत्त्वार्थाधिगमशून्यं सूत्रं लिङ्गाचारोपलक्षितं श्रुतमात्रं यस्य स लिङ्गाचारश्रुतमात्र इति ॥४१६॥ तथाहि
कप्पाकप्पं एसणमणेसणं चरणकरणसेहविहिं । पायच्छित्तविहिं पि य, दव्याइगुणेसु समग्गं ॥४१७॥ पव्वावणविहिमुट्ठावणं च अज्जाविहिं निरवसेसं ।
उस्सग्गववायविहि, अयाणमाणो कहं जयउ ॥४१८॥ कल्पं मासकल्पादिकं स्थविरकल्पादिकं वा तदन्यमकल्पं यद्वा कल्प्यं साधूनामुचितम् अकल्प्यमयोग्यम् एषणा शुद्धपिण्डस्यान्वेषणा च ततोऽन्या अनेषणा च तयोर्द्वन्द्वैकत्वे एषणानेषणं मकारोऽ15 लाक्षणिकः । चरणं व्रतादि ।
"वय ५ समणधम्म १० संजम १७ वेयावच्चं च १० बंभगुतीओ ९ ।
नाणाइतिअं३ तव १२ कोह ४ निग्गहो ईय चरणमेयं" ॥१॥ [ओ.नि.भा./२] ति वचनात् । करणं पिण्डविशुद्ध्यादि"पिंडविसोही ४ समिइ ५ भावणा १२ पडिमा य १२ इंदिअनिरोहो ५ ।
पडिलेहण २५ गुत्तीओ ३ अभिग्गहा ४ चेव करणं तु" ॥२॥ [ओ.नि.भा./३] इति श्रुतात् ।
शैक्षविधिं दीक्षाभिमुखस्य नवदीक्षितस्य वा सामाचारीग्राहणक्रमं तेषां द्वन्द्वे चरणकरणशैक्षविधिम् । प्रायश्चित्तस्यालोचनादेविधिर्यत् यस्य यादृशस्य यदा दीयते येन च दातव्यमित्यादिस्तमपि च । द्रव्यादिगुणेषु च विधिमित्यनुवर्तते । द्रव्यक्षेत्रादिषु च सुन्दरासुन्दरेषु यो विधिस्तं समग्रं सम्पूर्णम् अजानन्नित्युत्तरगाथातः
सम्बन्धनीयमिति । तथा प्रवाजनविधि दीक्षादानक्रमम् , उपस्थापनां व्रतारोपन्यायम् , आर्याविधि 25 साध्वीपालनक्रमम् , निरवशेषं निःशेषम् उत्सर्गापवादविधि द्रव्यादिचतुष्टयापेक्षया निर्विशेषेण कृत्यमार्गम् । एतत्सर्वमजानानः कथं यततामिति गाथाद्वयार्थः ॥४१७-४१८॥ तदथिना च गुरुराराध्य इत्याह
सीसायरियकमेण य, जणेण गहियाइं सिप्पसत्थाई ।
नजंति बहुविहाई, न चक्खुमेत्ताणुसरियाई ॥४१९॥ 30 शिष्याचार्यक्रमेणैव चस्य एवार्थत्वात् । जनेन अविवेकिनाऽपि आसतां लोकोत्तराः साधवः ।
गृहीतानि शिल्पशास्त्राणि शिल्पानि चित्रादीनि, शास्त्राणि शब्दागमादीनि । यतस्तथैव गृहीतानि तानि
20