________________
[कर्णिकासमन्विता उपदेशमाला । गाथा-४१२-४१५]
४३९ ___अबहुश्रुतो विशिष्टसिद्धान्ताधिगमशून्यः । तपस्वी विकृष्टतपोनिष्टप्तदेहः सन् तद्बलेनैव विहर्तुकामो गीतार्थं विना उद्यतविहारी भवितुकामोऽज्ञात्वा पथं ज्ञानादिकं मोक्षमार्ग स्वयं च गीतार्थतामनभ्यस्येत्यर्थः । यः किमिति आह-अपराधपदशतानि अतिचारस्थानवृन्दानि यः कृत्वाऽपि न जानाति । यदुत-एतदेतच्चाऽयुक्तं मया कृतमिति न वेत्तीति ॥४१२॥ देसियराइयसोहिं, वयाइयारे य जो न याणाइ ।
5 अविसुद्धस्स न वड्डइ, गुणसेढी तित्तिया ठाइ ॥४१३॥ दिवसेन निर्वृत्ता दैवसिका, एवं रात्रिका अतिचारा इति गम्यम्, तेषां शुद्धिः स्वपरयोः प्रायश्चित्तेन क्षालनम् । तत् व्रतातिचारांश्च मूलोत्तरगुणविराधनाख्यान् स्वरूपतो यो न जानाति तस्य ज्ञानशून्यतया अविशुद्धस्य अक्षालितसंयमस्य न वर्द्धते गुणश्रेणिर्ज्ञानादिसन्ततिर्गुणवद्गुरुसंयोगस्यैव तवृद्धिहेतुत्वात् । तदभावे तावत्येव यावती प्रागासीत् तत्प्रमाणैव तिष्ठति । क्लिष्टचित्तस्य तु तस्या अपि भ्रंशेन अनन्तसंसारित्वं 10 सम्पद्यते इत्यपि द्रष्टव्यमिति ॥४१३॥ एतदेव स्पष्टयति
अप्पागमो किलिस्सइ, जइ वि करेइ अइदुक्करं तु तवं ।
सुंदरबुद्धीए कयं, बहुयं पि न सुंदरं होइ ॥४१४॥ अल्पागमस्तुच्छश्रुतः क्लिश्यति के वलं क्लेशमनुभवति । यद्यपि करोति अतिदुष्करमेव 15 तुशब्दस्याऽवधारणार्थत्वात् तपो मासक्षपणादि कस्मादित्याह-सुन्दरबुद्ध्या सुन्दरमिदमिति स्वकल्पनया कृतं बह्वपि न सुन्दरं भवति । लौकिकानामिव तेषामपि अज्ञानतपस्वित्वादिति ॥४१४॥ तथा चाह
अपरिच्छियसुयनिहसस्स, केवलमभिन्नसुत्तचारिस्स ।
सव्वुज्जमेण वि कयं, अन्नाणतवे बहुं पडइ ॥४१५॥ अपरिच्छिन्नोऽपरीक्षितो वा श्रुतनिकष आगमान्तस्तत्त्वं येन स । तथा केवलमभिन्नम् अनुद्ग्रथितार्थं सूत्रविशिष्टव्याख्यानरहितं सूत्रमात्रं, तेन तदनुसारेण चरितुम् अनुष्ठातुं शीलमस्येति तस्याभिन्नसूत्रचारिणः । सर्वोद्यमेनाऽपि कृतमनुष्ठानमज्ञानतपसि पञ्चाग्निसाधनादिरूपे बहु पतति । स्वल्पमेवागमानुसारि भवति । उत्सर्गापवादसूत्राणां परस्परेणाऽऽपाततो विरोधात् । तद्विषयविभागज्ञानस्य गुरुसम्प्रदायाधीनत्वात् । तथा चोक्तम्
"जं जह सुत्ते भणियं तहेव जइ तब्वियारणा नस्थि ।
किं कालियाणुओगो दिवो दिट्ठिप्पहाणेहिं" ॥१॥ [बृ.क./३३१५ ] एतत्संवादी च महास्तवश्लोकोऽपि
"त्वदाम्नायपराधीनान् धन्यान् मन्यामहे जडान् । प्रज्ञादृशां हि स्वाच्छन्द्यं श्वभ्रपाताय केवलम्" ॥[ ] इति ॥४१५॥
20
१. अनुग्रथितार्थं - A, K, B, अनुग्रंथितं....D, अनुद्ग्रहितार्थं - KH अनुग्रंथितार्थं - HI