________________
5
कह सो जयउ अगीओ ? कह वा कुणइ अगीयनिस्साए ? | कह वा करेउ गच्छं ? सबालवुड्डाउलं सो उ ॥ ४०८ ॥
कथमसौ यततामगीतोऽगीतार्थः । कथं वा करोतु हितमिति शेषः । गीतं गणधरोक्तं श्रुतं, तद्यस्य नास्ति स अगीतस्तस्य निश्रा आश्रयस्तया अगीतनिश्रया । कथं वा करोतु गच्छं सबालवृद्धैराकुलं सबालवृद्धाकुलं प्राघुणकाद्याकीर्णं सोऽगीतार्थस्तन्निश्रितो वा उपायाभावात् तुशब्दाद्वितथाचरणाच्चाऽनर्थं 10 कुर्यादिति ॥४०८॥
20
[ कर्णिकासमन्विता उपदेशमाला । गाथा- ४०७-४१२] एवमुक्तेन प्रकारेण, अगीतार्थोऽपि हुर्निश्चये, जिनप्रवचनमेव शब्दरूपं प्रद्योतकतया प्रदीपः, स च चक्षुश्च तदर्थावबोधरूपं ताभ्यां परिहीनोऽनेनालोकलोचनाभ्यां शून्यत्वं दर्शयति । द्रव्यादीनि पूर्वोक्तानि अजानन् उत्सर्गापवादिकं चानुष्ठानम् । चेत्यनेन च अमार्गज्ञतां दर्शयति ॥ ४०७॥
एवं सति
सुत्ते य इमं भणियं, अप्पच्छित्ते य देइ पच्छित्तं ।
पच्छित्ते अइमत्तं, आसायण तस्स महई उ ॥४०९॥
सूत्रे च इदं भणितं यदुत - अप्रायश्चित्ते ददाति प्रायश्चित्तं चस्य व्यवहितसम्बन्धात्, प्रायश्चित्ते च अतिमात्रं मात्राधिकं यः, आशातना - ज्ञानाद्या यस्य लाभस्य शाटरूपा निरुक्तत्वात्, आशातना तस्य 15 महत्येव । तुशब्दोऽवधारणे । तथा च सूत्रम् -
25
४३८
30
"अप्पच्छित्ते य पच्छित्तं पच्छित्ते अइमत्तया ।
धम्मस्साऽऽसायणा तिव्वा मग्गस्स य विराहणा" ॥ [ बृ.क./ ६४२२ ] इति ॥ ४०९ ॥ ततश्च
आसायण मिच्छत्तं, आसायणवज्जणा य सम्मत्तं ।
आसायणानिमित्तं, कुव्वइ दीहं च संसारं ॥ ४१०॥
आशातना मिथ्यात्वं ज्ञानादिशाटनायास्तन्नान्तरीयकत्वात् । आशातनावर्जना पुनः साक्षात् सम्यक्त्वम् तद्वर्जनपरिणामस्य सम्यक्त्वेनाऽविनाभावात् । अत एव अगीतार्थो वितथाचरणेन आशातनानिमित्तम् आशातनया हेतुना करोति दीर्घं चशब्दात् क्लिष्टं च संसारमिति ॥४१०॥
एए दोसा जम्हा, अगीयजयंतस्सऽगीयनिस्साए ।
वट्टावयगच्छस्स य, जो वि गणं देइ अगीयस्स ॥ ४११ ॥
एते पूर्वोक्ता दोषा यस्मादगीतस्येति विभक्तिलोपात् यतमानस्य अगीतनिश्रया अन्यस्य वा यतमानस्येति गम्यम् । गच्छवर्त्तकस्य गच्छपालकस्य अगीतार्थस्य पूर्वोत्तरपदयोरार्षत्वाद्व्यत्ययः । यो वा गणं गच्छं ददाति अगीतार्थाय तस्याऽपि एते पूर्वोक्तयुक्तेर्दोषा एवेति ज्ञाने महानादरो विधेय इति ॥ ४११॥ द्वारगाथाव्याख्यानेन एकान्तेनाऽगीतार्थदोषानुक्त्वा किञ्चिज्ज्ञमधिकृत्याह—
अबहुस्सुओ तवस्सी, विहरिउकामो अजाणिऊण पहं । अवराहपयसयाई काऊण वि जो न याणाइ ॥ ४१२॥
टि. 1. प्राघूर्णकः प्राघुणकः - अतिथिः ।