SearchBrowseAboutContactDonate
Page Preview
Page 48
Loading...
Download File
Download File
Page Text
________________ 10 [कर्णिकासमन्विता उपदेशमाला । गाथा २-३] साक्षादुक्तम् । एषां चाभिधायकेन वचनरूपापन्नेनानेन प्रकरणेन सह वाच्यवाचकभावलक्षणः सम्बन्धः स्फुट एव । गुरुपर्वक्रमलक्षणस्तु सम्बन्धो गुरूपदेशेनेति पदेनाभिहितः । प्रयोजनं त्वनन्तरं हितार्थोपदेशानामुपकाररूपतया कर्तुः सत्त्वोपकारः श्रोतॄणां च तत्परिज्ञानं; परम्परं तूभयेषामपि शिवाधिगम एवेति गाथार्थः । इयं च गाथा मूलवृत्तिकृता न व्याख्यातेति प्रक्षेपः सम्भाव्यते परमत्यन्तमुचितेति व्याख्याता ॥१॥ अथ हितार्थानां स्वयमासेवनपूर्वमस्यामवसपिण्यां प्रथमोपदेष्टुः श्रीऋषभस्वामिनो वर्तमानतीर्थाधि- 5 पत्येन प्रत्यासन्नोपकारिणो भगवतो वर्धमानस्वामिनश्च सामान्येन कृतोऽपि विशेषतः प्रणामः कर्तुमुपदेष्टुं च समुचितः स च 'रतिर्देवादिविषया' इति वचनाद् रत्याख्यो भावः । अस्य च स्थायिभावतया 'रसादेः स्वशब्दोक्तिः क्वचित् संचारिवर्जं दोष' इति वचनान्नमस्करोमि नमामीत्यादि स्वशब्दैरेवाभिधाने सम्भाव्यमानदोषाऽऽशङ्कापरिहारायासाधारणगुणोत्कीर्तनेन प्रथम-पश्चिमतीर्थकरयोः स्तुत्याऽऽक्षिप्तं नमस्कारं व्याचकार सूत्रकार: - . जगचूडामणिभूओ उसभो वीरो तिलोयसिरितिलओ । . एगो लोगाइच्चो एगो चक्खू तिहुयणस्स ॥२॥ जगतश्चतुर्दशरज्ज्वात्मकलोकस्य चूडायां सिद्धिक्षेत्रलक्षणायां मणिभूतो रत्नोपम ऋषभो युगादिजिनः । तथा वीरः पुनःशब्दस्य लुप्तनिर्दिष्टत्वात् । त्रिलोकश्रियस्त्रिभुवनलक्ष्यास्तिलको विशेषकः । तत्रानयोरेकः प्रथमो युगादौ प्रभात इव लोकस्य मोहनिद्रानिरासेन विवेकप्रबोधहेतुतया पदार्थोद्योतकत्वेन चाऽऽदित्यः। तथा एकोऽन्यः 15 पुनर्वीरश्चक्षुर्लोचनं त्रिभुवनस्य तात्स्थ्यात् प्राणिगणस्य चक्षुर्भूतः प्रवचनार्थाभिधायकत्वादिति । अत्र चूडामण्याऽऽदित्यरूपऋषभरूपकद्वयापेक्षया क्रमेण तिलकचक्षुरूपवीररूपकद्वयस्य प्रत्यासन्नस्य साभिप्रायमभिधानात् साक्षाद् भगवतः शासने स्थित एव वीरस्य गुणस्तुतिमिमां चकार प्रकरणकार इति काक्वा गम्यते ॥२॥ अथैताभ्यामेव स्वयमासेवनादुपदेशाच्चारोपितमहिम्नस्तपःकर्मण उपदेशमाहसंवच्छरमुसभजिणो छम्मासा वद्धमाणजिणचंदो । 20 इय विहरिआ निरसणा जइज्ज एओवमाणेणं ॥३॥ संवत्सरम् ऋषभजिनस्तथा षण्मासान् वर्द्धमानजिनचन्द्रो वर्द्धमाननामा श्रुतादिजिननक्षत्रेषु प्रधानत्वेन चन्द्र इव चन्द्रः, इति एवं प्रवचनप्रसिद्धप्रकारेण विहृतौ परीषहोपसर्गसहनार्थं पर्यटितौ । निरशनौ आसेवितोपवासव्रतौ इति भगवतोः स्वरूपं प्रतिपाद्य शिष्यायोपदिशति-'जइज्ज एओवमाणेणं'ति यतेत भवानेतयोः ऋषभवर्द्धमानयोरुपमानेन प्रस्तावात्तपःकर्मणीति शेषः । अत्र च यतेतेति साभिप्राय, ततो यदि 25 नाम भगवन्तौ चरमदेहत्वाद्यथाकथञ्चित् सुनिष्टङ्किताऽप्रतिबद्धसिद्धिगमनावपि एवं विहृतौ ततोऽपरः सर्वोऽपि १. एतेषां K, H | २. तात्स्थात् K, L, KH | ३. श्रीऋषभ० PI टि. 1. हेयोपादेयावृत्तिकृता श्रीसिद्धर्षिगणिना इयं गाथा न व्याख्याता । सम्पा० ॥ 2. तिलके.....विशेषकाः ॥ [अभि. मर्त्यकाण्ड-६५३]
SR No.022274
Book TitleUpdeshmala
Original Sutra AuthorN/A
AuthorKirtiyashsuri
PublisherSanmarg Prakashan
Publication Year2013
Total Pages564
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy