________________
४३६
[कर्णिकासमन्विता उपदेशमाला । गाथा-३९७-४०२] शेषो मृषावादविरत्यादिरुत्कृष्टो मध्यमो जघन्यस्त्रिधा वा द्रव्यादिभेदाच्चतुर्दा वा तुशब्दः स्वगताऽनेकभेदद्योतकः । उत्तरगुणगोचरोऽतिचारोऽनेकविधः पिण्डविशुद्ध्याद्यनेकविषयत्वादिति । दर्शनज्ञानयोरष्टाष्टपदानि । तत्र दर्शने निशङ्कित-निकाङ्क्षितादीनि ज्ञाने काल-विनयादीनि । चारित्रस्य प्रागभिधानं मोक्षं प्रत्यन्तरङ्गताख्यापनार्थमिति ॥३९७॥ अतिचारश्चायमज्ञानप्रभवो वितथाचरणस्याज्ञानप्रभवत्वात्, अज्ञानं चानायैवेत्याह
जं जयइ अगीयत्थो, जं च अगीयत्थनिस्सिओ जयइ ।
वट्टावेई य गच्छं, अणंतसंसारिओ होइ ॥३९८॥ यत् किमपि यततेऽगीतार्थः, यच्चागीतार्थनिश्रितो यतते अगीतार्थस्यैव गुरोनिश्रामाश्रित्य यत्नं करोति । वर्त्तयति च गच्छं पालयति गणं चशब्दादजानन्नप्यभिमानेन ग्रेन्थान् व्याचष्टे । स तेन स्वयं 10 यतनादिचेष्टितेन अनन्तः संसारो यस्य स एवानन्तसंसारिको भवतीति ॥३९८॥ अत्राह पर:
कह य जयंतो साहू, वट्टावेई य जो उ गच्छं तु ।
संजमजुत्तो होउं, अणंतसंसारिओ भणिओ ? ॥३९९॥ कथं तु कथमेवं यतमानः साधुः वर्त्तयति च यस्तु गच्छम् । तुशब्दात् यश्च ग्रन्थान् व्याचष्टे । स सर्वोऽपि संयमयुक्तो भूत्वा अनन्तसंसारिको भणित इति ॥३९९॥ 15 आचार्य आह
दव्वं खित्तं कालं भावं पुरिसपडिसेवणाओ य ।
न वि जाणइ अग्गीओ, उस्सग्गववाइयं चेव ॥४००॥ द्रव्यं क्षेत्रं कालं भावं पुरुषप्रतिसेवनाश्च नैव जानाति अगीतार्थः । उत्सर्गाऽपवादादिकं चाऽनुष्ठानमिति शेषः । उत्सर्गापवादाभ्यां निवृत्तम् - औत्सर्गिकमापवादिकं च । एवशब्दात्तत्तद्गुणदोषांश्च 20 अगीतार्थो न जानाति । ज्ञानाभावाच्च वितथाचरणम् , ततश्च कर्मबन्धस्ततोऽपि चाऽनन्तसंसार इति द्वारगाथार्थः ॥४०॥ अथैतामेव द्वारगाथां व्याचष्टे
जहट्ठियदव्व न याणइ, सच्चित्ताचित्तमीसगं चेव ।
कप्पाकप्पं च तहा, जोग्गं वा जस्स जं होइ ॥४०१॥ यथास्थितं द्रव्यं न जानाति । अनुस्वारलोपः प्राकृतलक्षणात् सर्वत्र द्रष्टव्य एवं सचित्तमचित्तं मिश्रं तदुभयात्मकं तेषां द्वन्द्वे तत्तथा चैव, कल्प्याऽकल्प्यं च तथा साधूनामुचितानुचितम् । योग्यं वा यस्य ग्लानादेर्यद्भवति द्रव्यं तत्सर्वमगीतार्थो न जानातीति ॥४०१॥
जहट्ठियखित्त न याणइ, अद्धाणे जणवए य जं भणियं । कालं पि य न वि जाणइ, सुभिक्खदुब्भिक्ख जं कप्पं ॥४०२॥
25
१. विषयादीनि - D|२. ग्रन्थांताचष्टे - K. DI