________________
४३५
[ कर्णिकासमन्विता उपदेशमाला । गाथा - ३९३-३९७ ]
धर्मे सद्भावसाध्ये, नास्ति माया अत्यन्तविरोधान्न च नैव कपटं परवञ्चनचेष्टितं नानुवृत्तिभणितं वा पराऽऽवर्जनार्थं सदोषं वाक्यं स्फुटं व्यक्तवर्णं प्रकटमलज्जनीयम् अकुटिलं निर्मायं धर्मवचनमृजुकं मोक्षं प्रति प्रगुणं जानीहि बुद्ध्यस्वेति ॥ ३९३ ॥
न वि धम्मस्स भडक्का, उक्कोडा वंचणा य कवडं वा । निच्छम्मो किर धम्मो, सदेवमणुयासुरे लोए ॥ ३९४॥
नापि सम्भाव्यते धर्मस्य भडक्का बृहदासनाद्याडम्बररूपाः साधनमिति शेषः । उत्कोचा लञ्चा यद्ययं मह्यमिदं दत्ते तदाऽहमस्येदं करोमीत्यादिरूपा, वञ्चना वा 'शैवे देशप्रत्यया' इत्यादिवत् तत्त्वदर्शनविप्रतारणा । कपटं वा गुप्तं स्निग्धमाहृत्याऽहमुपोषित एवंरूपम् । एकार्थिकानि सर्वाण्येतानि पूर्वगाथयैव गतार्थत्वेऽपि मायया सह धर्मस्याऽऽत्यन्तिको विरोध इति दर्शनार्थम् ।
'सुद्धस्स होइ चरणं, मायासहिएण चरणभेड" [ ]त्ति वचनात् तदेवाह - निच्छम्मो निर्मायः किल धर्मः 10 सदेवमनुजासुरे लोके त्रैलोक्य इति ॥ ३९४ ॥ आनुषङ्गिकमुक्त्वा आयव्ययतुलनार्थम् अधिकारिणः पुरुषानाहभिक्खू गीयमगीए, अभिसेए तह य चेव रायणिए ।
एवं तु पुरिसवत्थं, दव्वाइं चउव्विहं सेसं ॥ ३९५॥
भिक्षुर्द्विधा गीतार्थो विहितागमरहस्यस्तदन्योऽगीतार्थः, मकारोऽलाक्षणिकः । अभिषेक्योऽभिषेकार्ह उपाध्यायः तथा चैव 'आचार्यः' पाठान्तरं वा रात्निको रत्नाधिक आचार्य एव । 'चेव त्ति चशब्दादनुक्त- 15 स्थविरादिपरिग्रहः । एवं तुशब्दस्तद्गुणतारतम्यविशेषणार्थः । पुरुषा एव ज्ञानादिगुणवसनयोगाद्वस्तु पुरुषवस्तु, आयव्ययतुलनाया विषयो भवतीति गम्यते । द्रव्यादि चतुर्विधम् आदिशब्देन क्षेत्रकाल - भावग्रहणात् । शेषं पुरुषवस्तुनोऽन्यत्तद्विषयो भवतीति वर्त्तते । द्रव्यात् पुरुषवस्तुनः पृथगभिधानं प्राधान्यख्यापनार्थम् । एतत्सर्वं तुलयित्वा यथा बहुलाभं तथा विधेयमन्यथाऽतिचार इति तात्पर्यार्थः ॥ ३९५ ॥ स चातिचार: सामान्येन ज्ञानादिविषयत्वात् त्रिविधोऽपि विशेषतोऽनेकविध इत्याह
चरणाइया दुविहो, मूलगुणे चेव उत्तरगुणे य । मूलगुणे छट्टाणा, पढमो पुण नवविहो तत्थ ॥३९६॥
5
सेक्कोसोमज्झिम, जहन्नओ वा भवे चद्धा उ । उत्तरगुणणेगविहो, दंसणनाणेसु अट्ठट्ठ ॥३९७॥
चारित्रातिचारश्चारित्रातिक्रमाद् द्विविधः । मूलगुणे चैव उत्तरगुणे च मूलोत्तरगुणविषयः त्रिविधोऽपि विशेषतो अनेकविध इत्यर्थः । तत्र मूलगुणेषु षट्स्थानानि । प्राणातिपातविरत्यादीनि रात्रिभोजनविरतिषष्ठानि तानि अतिचारगोचरतया भवन्ति । प्रथमो मूलगुणः पुनर्नवविधः । पृथिव्यप्तेजोवायुवनस्पतिद्वित्रिचतुः- 25 पञ्चेन्द्रियविषयतया तत्र तेषां स्थानानां मध्ये इति ॥ ३९६ ॥
१. भावनमिति - B। २. देशप्रत्यया... B । ३. निवारयति - BI टि. 1. लायते प्रच्छन्नं गृह्यते इति लञ्चा 'लांच' इति भाषायाम् ।
20