SearchBrowseAboutContactDonate
Page Preview
Page 475
Loading...
Download File
Download File
Page Text
________________ 10 15 सोऽपि च अनन्तरोक्तोऽन्योऽपि च द्रव्याऽऽपद्गतो, निजकं पराक्रमं - शारीरसामर्थ्यं, व्यवसायोविशिष्टनिश्चयात्मको वाचनिकः परिस्पन्दः, धृतिश्चित्तधैर्यम्, तेषां बलं निजकपराक्रमव्यवसायधृतिबलं 5 त्रिविधमपि तदगूहयन् प्रकटयन् मुक्त्वा कूटचरितं मायासाध्यं चेष्टितं यदि यतते यत्नं कुरुते चेत्, ततोऽवश्यं यतिः सुसाधुरेव भगवदाज्ञाकर्तुर्गौतमादेरिव तस्यापि यतित्वसिद्धेरिति ॥ ३८४॥ कूटचरितस्यैव चेष्टामाह 20 ४३२ 25 [ कर्णिकासमन्विता उपदेशमाला । गाथा-३८४-३८६ ] सो वि य निययपरक्कम - ववसायधिईबलं अगूहंतो । मोत्तूण कूडचरियं, जइ जयइ तो अवस्स जई ॥ ३८४॥ अलसो सढोऽवलित्तो, आलंबणतप्परो अइपमाई । एवं ठिओ वि मन्नइ, अप्पाणं सुट्ठिओ मित्ति ॥३८५ ॥ अलसः क्रियासु मन्दः, शठो मायिकः, अवलिप्तः सगर्वः, आलम्बनतत्परो यत्किञ्चिन्मिषमाश्रित्याऽकृत्यनिष्ठः, अतिप्रमादी निद्रादिषु गाढं प्रसक्तः । एवंस्थितोऽपि मन्यते आत्मानं यदुत सुस्थितोऽस्मीति निर्गुणस्याऽपि स्वस्य गुणवत्तां ख्यापयतीति मायिकत्वमिति ॥ ३८५॥ तेस्यापायं दृष्टान्तेनाह जो वि य पाडेऊणं, मायामोसेहिं खाइ मुद्धजणं । तिग्गाममज्झवासी सो सोयइ, कवडखवगु व्व ॥ ३८६ ॥ योऽपि च पातयित्वात्मवशे इति शेषः । अपि च अनेन अखादकोऽपि पररञ्जनमात्रप्रवण एवं यस्तु मायामृषाभिरलीकवाक्यचेष्टितैः खादयति वञ्चयति-मुग्धजनम् ऋजुलोकम्, त्रयाणां ग्रामाणां मध्ये वसनशीलः स शोचते कपटक्षपक इव यथा स शोचितवांस्तथाऽन्योऽपीति ॥ ३८६ ॥ कथा चात्र [कपटक्षपककथानकम् ॥] पुण्यपण्यविशालायां विशालायां पुरा पुरि । अघोरशिव इत्यासीत् ब्राह्मणो घोरजिह्मधीः ॥१॥ इहलोकैकनिर्बद्धबुद्धिः कपटलम्पटः । अकृत्यैकरतिर्देशादसौ निर्वासितोऽधमः ॥२॥ गतोऽथ चर्मकाराख्ये विषये विषयेच्छया । स्वयं धूर्त्तपरीवारः परिव्राजकतामधात् ॥३॥ महाग्रामत्रयस्याऽन्तरध्यास्य स तपोवनम् । दम्भो दम्भोलिदुर्भेदः साक्षादिव तपो व्यधात् ॥४॥ मासान्मासादसौ भुङ्क्ते योगासीनो महातपाः । महाज्ञानीति च ख्यातिस्तस्य मायाविनोऽजनि ॥५॥ दयापरमिवात्मानं परानुग्रहहेलया । निमित्तानि ब्रुवन् बुद्ध्या स विश्वास्य इवाजनि ॥६॥ अयं तपोनिधिरिति प्रीतैर्भक्त्या जनव्रजैः । आमन्त्र्य नीतो गेहान्तः संधिस्थानान्यवैक्षत ॥७॥ धूर्त्तानां तानि निश्चित्य रहस्यथ जगाद सः । ततस्तत्प्रत्ययात् खातं पातयन्ति स्म तत्र ते ॥८॥ इत्थं त्रयोऽपि ते ग्रामास्तेन तैश्च मलिम्लुचैः । मुषित्वा रिक्ततां नीताः कामा इव विकर्मणाम् ॥९॥ जागरूकोऽन्यदा कश्चिन्निशायां कुलपुत्रकः । अन्तः खातमुखं पाशं निजावासे न्यवेशयत् ॥१०॥ १. निजकः पराक्रम: C । २ तस्योपायं - B। ३. जन्म - CI
SR No.022274
Book TitleUpdeshmala
Original Sutra AuthorN/A
AuthorKirtiyashsuri
PublisherSanmarg Prakashan
Publication Year2013
Total Pages564
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy