________________
४३१
[कर्णिकासमन्विता उपदेशमाला । गाथा-३७९-३८३]
पहगमणवसहिआहार-सुयणथंडिल्लविहिपरिट्ठवणं ।
नायरइ नेव जाणइ, अज्जावट्टावणं चेव ॥३७९॥ पथगमनं वसतिम् आहारं स्वपनं स्थण्डिलं चेति द्वन्द्वे, तेषामागमोक्तेन विधिना क्रमेण सहिता या परिष्ठापना तां जानन्नपि नाचरति निर्द्धर्मतया अथवा नैव जानाति आर्यावर्त्तनं चैव यथा आर्या आर्यिका वर्तयितव्याः सम्यक् वाहयितव्यास्तज्जानन्नपि नाचरति न जानात्येव वेति ॥३७९।।
सच्छंदगमणउदाणसोवणो अप्पणेण चरणेण ।
समणगुणमुक्कजोगी, बहुजीवखयंकरो भमइ ॥३८०॥ स्वच्छन्दं गुर्वाज्ञां विना गमनोत्थानस्वप्नानि यस्य स तथा आत्मीयेन स्वमतिकल्पितेन चरणेन आचारेणोपलक्षणे तृतीया, श्रमणगुणेषु ज्ञानादिषु मुक्तयोगी त्यक्तव्यापारः । अत एव बहुजीवक्षयकरोऽनेकप्राणिप्रणाशकर्ता अनुस्वारोऽलाक्षणिकः एवम्भूतः सन् भ्रमति निरर्थकमटाट्यते इति ॥३८०॥ 10
वत्थि व्व वायपुण्णो, परिभमइ जिणमयं अयाणंतो।
थद्धो निम्विन्नाणो, न य पिच्छइ किंचि अप्पसमं ॥३८१॥ वस्तिवच्चर्मप्रसेविकेव, वातपूरितो वाग्पूर्णों वाऽतिगर्वाध्मातत्वात्, परिभ्रमति जिनमतं मदगदौषधकल्पं सर्वज्ञवचनम् अजानानः । स्तब्धो वपुषाऽपि दर्शितगर्वचिह्नो निर्विज्ञानो ज्ञानगर्वयोर्दू विरोधात् न च नैव प्रेक्षते किञ्चिदात्मसमं जगदप्युत्सेकान्न्यूनं मन्यत इति ॥३८१॥
सच्छंदगमणउट्ठाणसोवणो, भुंजए गिहीणं च ।
पासत्थाई ठाणा, हवंति एमाइया एए ॥३८२॥ स्वच्छन्दगमनोत्थानस्वप्न इति प्राग्वत् । सर्वे गुणा गुणवत्पारतन्त्र्यसाध्या इति ज्ञापनार्थं पुनरप्युक्तम्, तद्रहितस्य हि गुणोपायप्रवृत्तिरपि दूरनिरस्तैवेति तत्सम्बन्धस्य मूलोच्छेद एव । भुङ्क्ते गृहिणां च मध्ये इति शेषः । कियद्वा मोहपारतन्त्र्यचेष्टितं निर्वक्तव्यमिति निगमयति-पार्श्वस्थादिस्थानानि भवन्ति एवमादीनि 20 एतानि, पुल्लिङ्गनिर्देशो लिङ्गस्य प्राकृतेऽतन्त्रत्वादिति ॥३८२॥ . अत्राह कश्चित् - हन्तैवं तर्हि न कश्चिदस्ति सुसाधुरुद्यतविहारिणामपि कारणान्तरादेवं प्रवृत्तिदर्शनादिति । विषयविभागानभिज्ञानामेष व्याहारः । स चायमिति गाथाद्वयेनाह
जो हुज्ज उ असमत्थो, रोगेण व पेल्लिओ झुरियदेहो । सव्वमवि जहा भणियं, कयाइ न तरिज्ज काउं जे ॥३८३॥
25 यो भवेत्तु पुनरसमर्थः प्रकृत्यैव असारसंहननत्वात् यथोक्तं कर्तुमसमर्थ एव, तुशब्दस्याऽवधारणार्थत्वात् रोगेण वा ज्वरादिना पीडितत्वात् प्रेरितः राजयक्ष्मादिना जरया वा, झुरितदेहो त्ति जीर्णावस्था लम्भितस्तदवस्थोचितं किञ्चित् कुर्वाणोऽपि अक्षमत्वात्सर्वमपि यथा भणितं यथोक्तं कदाचिन्न तरेन्न शक्नुयात्कर्तुं जे इति 'इ-जे-राः पादपूरणे' [सिद्धहे० ८।२।२१७] इति ॥३८३॥
१. आयार - C । २. सोयणो - C, K, D, L | ३. प्रसेवकेव - KH, K, D। ४. विशेषः - C । ५. न विषयविभा... C ना विषयविभा....K, D, AI