________________
5
15
20
[ कर्णिकासमन्विता उपदेशमाला । गाथा - ३७४-३७८ ] धम्मकहाओ अहिज्जइ, घराघरिं भमइ परिकहंतो अ । गणणा पमाणेण य, अइरित्तं वहइ उवगरणं ॥ ३७४ ॥
धर्मकथा अधीते जीविकार्थम् अत एव गृहाद् गृहं भ्रमति परिकथयंश्च ता इति । गणनया
" जिणा बारसरूवाई थेरा चउदसरूविणो । अज्जाणं पन्नवीसं तु अओ उड्डमुवग्गहो" [ ओ.नि./६७२ ] एवंरूपया । प्रमाणेन-'' कप्पा आयप्पमाणा, अड्डाइज्जा उ आयओ हत्था " [ ओ.नि./७०६ पूर्वा. ] इत्यादिप्रतिपादितेन च अतिरिक्तम् उक्तात् समर्गलं वहति उपकरणमिति ॥ ३७४ ॥
द्वादश द्वादश तिस्त्रश्च क्रमेण कायिकाउच्चारकालभूमी: सप्तविंशतिं स्थण्डिलानि न प्रत्युपेक्षते इति 10 सम्बन्धः । तत्राऽऽलयपरिभोगस्यान्तर्मध्ये षड् बहिश्च षट् कायिकायास्तत्राऽपि प्रत्येकं त्रीणि अध्यासस्य सहिष्णोः त्रीण्यनध्यासकस्याऽसहिष्णोः । एवमेव उच्चारस्याऽपि तत्प्रमाणं च तिर्यग् जघन्यतो हस्तमात्रम् अधश्चत्वार्यङ्गुलानि अचेतनमिति ॥ ३७५॥
25
४३०
बारस बारस तिन्निय, काइयउच्चारकालभूमीओ ।
अंतो बहिं च अहियासि, अणहियासे न पडिलेहे ॥ ३७५ ॥
गीत्थं संविग्गं, आयरियं मुयइ वलइ गच्छस्स ।
गुरुणो य अणापुच्छा, जं किंचि वि देइ गिण्हइ वा ॥ ३७६ ॥
गीतार्थमपि अधिगतागमं संविग्नं मोक्षाभिलाषुकम् आचार्यं स्वगुरुं मुञ्चति, निष्कारणं त्यक्त्वा गच्छति । कारणे तु आदेशं याचित्वा मुञ्चतोऽपि न दोषः । वलते गच्छस्य क्वचिन्नोदनां कुर्वतस्तत्प्रत्युत्तरदानायाभिमुखो भवति । गुरूंश्च अनापृच्छ्य किञ्चिद् वस्त्रादिकं कस्मैचिद् ददाति गृह्णाति वा कुतश्चिदिति ॥३७६॥
गुरुपरिभोगं भुंजइ, सिज्जासंथारउवगरणजायं ।
किं तियतुमं ति भासइ, अविणीओ गव्विओ लुद्धो ॥३७७॥
गुरुणा परिभुज्यमानं परिभोगं भुङ्क्ते शय्या - संस्तार - उपकरणजातं तत्र शय्या शयनभूमिः, संस्तारकः फलकादिः उपकरणजातं वस्त्रपात्रादि । गुरोः सम्बन्धि सर्वमिदं वन्द्यमेव न भोग्यम् । तथाऽऽहूतः किमिति च भाषते, तत्र हि 'मस्तकेन वन्दे' इत्यभिधातव्यम् । आलपंश्च त्वमिति गुरुं प्रति भाषते, 'प्रभवो यूयम्' इत्यादि तत्र वाच्यम्, बहुवचनार्हत्वात् । अत एव विपरीतकरणादविनीतो गर्वितः सोत्सेको लुब्धो विषयादौ गृद्ध इति ॥३७७॥
गुरुपच्चक्खाणगिलाण - सेहबालाउलस्स गच्छस्स ।
न करेइ नेव पुच्छर, निद्धम्मो लिंगमुवजीवी ॥३७८॥
गुरुराचार्य:, प्रत्याख्यानी क्षपकोऽनशनी वा, ग्लानः सरोग: शैक्षः प्राथमकल्पिको बालः शिशुस्तेषां द्वन्द्वे, तैराकुलस्य सङ्कीर्णस्य गच्छस्य न करोति यत् कृत्यं स्वयमेव, नैव पृच्छति भगवन्तः ! किं मया कर्त्तव्यमिति । यतो निर्द्धर्मो निराचारः । लिङ्गोपजीवी जीविकामात्रफलवेष इत्यर्थः ॥३७८॥