________________
४२९
5
[कर्णिकासमन्विता उपदेशमाला । गाथा-३६८-३७३ ]
न करेइ पहे जयणं, तलियाणं तह करेइ परिभोगं ।
चरइ अणुबद्धवासे, सपक्खपरपक्खओमाणे ॥३६८॥ न करोति पथि यतनाम् एषणीयान्नपानान्वेषणादिकाम् , अनुपानत्कः शक्तोऽपि गन्तुं तलिकयोरेकैकतलोपादानयोरुपानहोस्तथा निष्कारणं करोति परिभोगम् । चरत्यनुबद्धवर्षे प्रावृट्काले स्वपक्षपरपक्षापमाने साधुभिर्भीताद्यैश्च भूत्वा सम्भाव्यमानापमाने शङ्कितलाघवहेतौ क्षेत्रे विहरतीति ॥३६८॥
संजोयइ अइबहुयं, इंगाल सधूमगं अणट्ठाए ।
भुंजइ रूवबलट्ठा, न धरेड य पायपुंच्छणयं ॥३६९॥ ___ संयोजयति रसलौल्यात् अतिबहुकं क्षीरशर्करादिकं मीलयति । इङ्गाल त्ति सशब्दलोपात् साङ्गारं रागसहितं सधूमकं सद्वेषम्, अनर्थाय वेदनादिकारणषट्करहितमित्यर्थः, भुङ्क्ते रूपबलार्थं । न धारयति पादप्रोञ्छनकं रजोहरणमिति ॥३६९॥
अट्ठमछट्ठचउत्थं, संवत्सरचाउम्मासपक्खेसु ।
न करेइ सायबहुलो, न य विहरइ मासकप्पेणं ॥३७०॥ अष्टमं च षष्ठं च चतुर्थं च यथाक्रम संवत्सरे च चातुर्मासके च पक्षे च न करोति । पक्षेष्विति द्वन्द्वे बहुवचननिर्देशस्तत्तज्जातीयसर्वपर्वसङ्ग्रहार्थः । सातबहुलः सुखशीलतया न च विहरति मासकल्पेन हेमन्तादिष्वपीति ॥३७०॥
नीयं गिण्हइ पिंडं, एगागी अच्छए गिहत्थकहो ।
पावसुयाणि अहिज्जइ, अहिगारो लोगगहणम्मि ॥३७१॥ नित्यमेकगृहाद् गृह्णाति पिण्डम् । एकाकी केवल एव आस्ते । गृहस्थानां सत्का कथा यस्य स गृहस्थकथः । पापश्रुतानि दिव्यादीन्यधिकरणरूपाण्यधीते । अधिकारस्तप्तिर्लोकग्रहणे जनचित्तरञ्जने न स्वकृत्ये इति ॥३७१॥
परिभवइ उग्गकारी, सुद्धं मग्गं निगूहई बालो ।
विहरइ सायागरुओ, संजमविगलेसु खित्तेसु ॥३७२॥ परिभवति न्यक्करोति उग्रकारिणः सुसाधून् अथवा परिभ्राम्यति 'अहम् उग्रकारी' इति जने प्रकाशयन् । शुद्धं मार्ग निष्कलङ्करत्नत्रयं निगृहति नि ते बालोऽज्ञः । विहरति सातगुरुकः सुखलिप्सुः संयमविकलेषु साधुभिरवासितेषु संसक्तादिदुष्टेषु क्षेत्रेष्विति ॥३७२॥
25 उग्गाइ गाइ हसई य, असंवुडो सइ करेइ कंदप्पं ।
गिहिकज्जचिंतगो वि य, ओसन्ने देइ गिण्हइ वा ॥३७३॥ उद्गायति महाध्वनिना गायति । कण्ठकाकल्या हसति च । असंवृतो विवृतास्यः सदा करोति कन्दर्प तदुद्दीपकैर्वाक्यादिभिः परान् हासयति । गृहिकार्यचिन्तको गृहस्थार्थशीलकोऽपि च अवसन्ने, चतुर्थ्यर्थे सप्तमी, तेन अवसन्नाय ददाति वस्त्राद्यं गृह्णाति वा तत इति ॥३७३।।
30
15
20