________________
४२८
[कर्णिकासमन्विता उपदेशमाला । गाथा-३६२-३६७] खित्ताईयं भुंजइ, कालाईयं तहेव अविदिन्नं ।
गिण्हइ अणुग्गइ य सूरे, असणाई अहव उवगरणं ॥३६२॥ क्षेत्रातीतं द्विगव्यूतातिक्रान्तम् अशनादि भुङ्क्ते । कालातीतं पौरुषीत्रयाऽतिवाहनेन । तथैव अविदत्तं गृह्णात्यनुदिते सूरे अशनादि अथवोपकरणं वस्त्रादि, भगवद्भिरननुज्ञातत्वादिति ॥३६२॥
ठवणकुले न ठवेई, पासत्येहिं च संगयं कुणइ ।
निच्चमवज्झाणरओ, न य पेहपमज्जणासीलो ॥३६३॥ स्थापनाकुलानि गुरोविशिष्टप्रयोजनसाधकानि गृहाणि न स्थापयति निष्प्रयोजनं तेषु प्रविशति । पार्श्वस्थैः सह सङ्गतः सङ्ग मैत्री वा कुरुते । नित्यमपध्यानरतः सदा दुष्टाध्यवसायासक्तः । न च
प्रेक्षाप्रमार्जनाशीलः प्रमत्तत्वादिति ॥३६३॥ 10
रीयए दवदवाए, मूढो परिभवइ तह य रायणिए ।
परपरिवायं गिण्हइ, निट्टरभासी विगहसीलो ॥३६४॥ रीयते गच्छति दवदवाए त्ति द्रुतं द्रुतं मूढः परिभवति तथा च रत्नाधिकान् ज्ञानादिभिरैभ्यधिकान्, परपरिवादम् अन्याश्लाघां गृह्णाति करोति । निष्ठुरभाषी कर्कशवाक्यः । विकथाशीलः स्त्र्यादिकथातत्पर इति ॥३६४॥
विज्जं मंतं जोगं, तेगिच्छं कुणइ भूकम्मं च ।
अक्खरनिमित्तजीवी, आरंभपरिग्गहे रमइ ॥३६५॥ विद्यां स्त्रीरूपदेवताधिष्ठितां मन्त्रं पुरुषदैवतं योगं विशिष्टद्रव्यात्मकं चिकित्सां रोगप्रतिक्रियां करोत्यसंयतानामिति गम्यम् । भूतिकर्म च अभिमन्त्रितभूत्यादिना रक्षादिकम्, एषणायामाहारार्थमिदमुक्तम्,
इह तूपरोधादिनेति न पौनरुक्त्यम् । अक्षरनिमित्ताभ्यां लेखशाला-दैवज्ञत्वाभ्यां जीवनशीलोऽक्षरनिमित्तजीवी 20 तन्मात्रवृत्तिः । अत एव आरम्भः पृथिव्याधुपमर्दः परिग्रहोऽतिरिक्तस्वीकारस्तत्र रमते सजतीति ॥३६५||
कज्जेण विणा उग्गह-मणुजाणावेइ दिवसओ सुयइ ।
अज्जिअलाभं भुंजइ, इत्थिनिसिज्जासु अभिरमइ ॥३६६॥ कार्येण विना निष्प्रयोजनं देवेन्द्र-राज-गृहपति-सागारिक-साधर्मिकाणामवग्रहम् अनुज्ञापयति । दिवसतो दिने स्वपिति । आर्यिकालाभं भुङ्क्ते । स्त्रीनिषद्यासु तत्कालमेव तदुत्थानानन्तरम् अभिरमते 25 इति ॥३६६॥
उच्चारे पासवणे, खेले सिंघाणए अणाउत्तो ।
संथारगउवहीणं, पडिक्कमइ वा सपाउरणो ॥३६७॥ उच्चारादिचतुष्टयविषये अनायुक्तोऽयतनया तदुत्सर्गकर्ता, संस्तारकउपधीनाम् उपरिस्थितः प्रतिक्रामतीति साऽध्याहारं सप्रावरणो वा वाशब्दस्य सम्बन्धव्यवधानात् साऽऽच्छादनो वा प्रतिक्रमणं करोतीति ॥३६७॥
१. रत्यधिकान् - B, रप्यधिकान् - A, L रवधिकान् - D, रधिकान् - KH |