SearchBrowseAboutContactDonate
Page Preview
Page 469
Loading...
Download File
Download File
Page Text
________________ ४२६ [कर्णिकासमन्विता उपदेशमाला । गाथा-३५१-३५६] सम्यक्त्वं गुणवत्प्रमोदसाध्यं पेलवं निस्सारं तत्कल्पनया सदप्यसत्कल्पं तस्येति परमार्थतो मिथ्यादृष्टिरिति ॥३५१॥ साधूनामपि प्रवचनभक्त्या अवसन्नान् प्रति यद्विधेयं तदाह ओसन्नस्स गिहिस्स व, जिणपवयणतिव्वभावियमइस्स । कीरइ जं अणवज्जं, दढसम्मत्तस्सऽवत्थासु ॥३५२॥ अवसन्नस्य सामान्यशब्दतया पार्श्वस्थादेहिणो वा श्रावकस्य जिनप्रवचनतीव्रभावितमतेरहंदागमानुरक्तचित्तस्य क्रियते यदनवद्यं यदुचितं दृढसम्यक्त्वस्य न प्रियधर्ममात्रस्य अवस्थासु द्रव्यक्षेत्रकालभावापदादिषु कारणेष्विति ॥३५२॥ तथा चाऽऽह पासत्थोसन्नकुसील, णीयसंसत्तजणमहाछंदं । नाऊण तं सुविहिया, सव्वपयत्तेण वज्जंति ॥३५३॥ ज्ञानादीनां पार्वे तिष्ठतीति पार्श्वस्थः । आवश्यकादिषु अवसदनादवसन्नः । कुत्सितशीलः कुशीलः । नित्यमेकत्रवासान्नित्यः । परगुणदोषेषु सङ्गात् संसक्तः, तेषां द्वन्द्वे जनस्तम् । यथा स्वच्छन्दम् आगमनिरपेक्षतया वर्त्तते स यथाच्छन्दस्तं तस्य पृथक्करणं बहुदोषताख्यापनार्थं ज्ञात्वा तं जनं सुविहिताः साधवः सर्वप्रयत्नेन वर्जयन्ति तत्सङ्गस्यानर्थहेतुत्वादिति ॥३५३।। 15 कानि पुनः स्थानानि सेवमानः पार्श्वस्थादितां यातीति तान्येव चाष्टाविंशत्या गाथाभिराह बायालमेसणाओ, न रक्खइ धाइसिज्जपिंडं च । आहारेइ अभिक्खं, विगईओ सन्निहिं खाइ ॥३५४॥ द्विचत्वारिंशतम् एषणाः पूर्वोक्ता न रक्षति धात्रीशय्यापिण्डं च तत्र बालक्रीडनादिलभ्यो धात्रीपिण्डस्तस्य एषणात्वेऽपि पृथगुपादानं गृहस्थसम्बन्धस्य महानर्थहेतुत्वदर्शनार्थम् । शय्यातरपिण्ड: शय्या20 पिण्डस्तं च न रक्षति इति । आहारयति वाऽभीक्ष्णमनवरतं विकृती: क्षीराद्याः सन्निधिं पर्युषितगुडादिरूपं खादति इति ॥३५४॥ सूरप्पमाणभोई, आहारेई अभिक्खमाहारं । न य मंडलीए भुंजइ, न य भिक्खं हिंडई अलसो ॥३५५॥ सूरप्रमाणभोजी यावदादित्यं भोजनशीलः, आहारयत्यभीक्ष्णं वारंवारमाहारम्, न च मण्डल्यां 25 साधुभिः सह भुङ्क्ते, न च भिक्षां हिण्डते अलसः आलस्योपहतत्वादिति ॥३५५॥ कीवो न कुणइ लोयं, लज्जइ पडिमाए जल्लमवणेई । सोवाहणो य हिंडइ, बंधइ कडिपट्टयमकज्जे ॥३५६॥ क्लीबो निःसत्त्वो न करोति लोचं । लज्जते प्रतिमया कार्योत्सर्गेण । जल्लं मलम् अपनयति । १. परिकल्पनया - AI
SR No.022274
Book TitleUpdeshmala
Original Sutra AuthorN/A
AuthorKirtiyashsuri
PublisherSanmarg Prakashan
Publication Year2013
Total Pages564
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy