SearchBrowseAboutContactDonate
Page Preview
Page 468
Loading...
Download File
Download File
Page Text
________________ [ कर्णिकासमन्विता उपदेशमाला । गाथा - ३४८-३५१ ] "काले कलौ खले लोके जीवे धान्यस्य कीटके । एतदेव महच्चित्रं यज्जना जैनलिङ्गिनः ॥ १ ॥ रत्नाकर इव क्षारवारिभिः परिपूरणात् । गम्भीरिमाणमाधत्ते शासनं लिङ्गधारिभिः ॥२॥ लिङ्गोपजीविनां लोके कुर्वते येऽवधीरणाम् । दर्शनोच्छेदपापेन लिप्यन्ते ते दुराशयाः ॥३॥ धार्मिका अपि नार्चन्ति जैनलिङ्गधरांश्च ये । किं तैः श्रुतमधीतं वा गुरुभ्यस्तर्हि गर्हितैः ॥४॥ प्ररूपिता ये तु पार्श्वस्थादिनिरूपणे । ते हि ज्ञापयितुं तेषां न तु वक्तुमगारिणाम् ॥५॥ प्रतिमाधारिणोऽप्येषां त्यजन्ति विषयं पुरः । लिङ्गिनां विषयस्थानामनच तु विरोधिनी ॥६॥ यान् लिङ्गिनोऽनुवन्दन्ते संविग्ना अपि साधवः । तदर्च्या चर्च्यते कस्माद्धार्मिकैर्भवभीरुभिः ॥७॥ वाचेत्यादि विधिर्योऽत्र नमस्काराय लिङ्गिनाम् । आम्नातो यतिनां सैष श्राद्धानां बुध्यतेऽधिकः ॥८॥ इति । तथाहि वाया नमोक्कारो हत्थोस्सेहो य सीसनमणं च । संपुच्छ्णअच्छणं थोभवंदणं वंदणं वावि" ॥९॥ [ बृ.क./४५४५] इति ॥३४८॥ कीदृशं तर्हि तेषां लिङ्गावशेषाणां लिङ्गं भवतीत्याह तेषां दोषगुणानाह ४२५ दगपाणं पुप्फफलं, अणेसणिज्जं गिहत्थकिच्चाई | अजया पडिसेवंती, जड़वेसविडंबगा नवरं ॥ ३४९॥ दकपानं सचित्तोदकपानम्, द्वन्द्वैकवद्भावात् पुष्पफलं सचित्तमेव, अनेषणीयम् आधाकर्मादि । गृहस्थकृत्यानि गृहकरणादीनि । अयता अनियन्त्रिताश्रवद्वाराः सन्तः प्रतिसेवन्ते । यतिवेषविडम्बका नवरं धर्मध्वजादिसाधुनेपथ्यविगोपकाः केवलं ये ते यतिगुणरहितत्वात् लिङ्गावशेषाः स्युरिति भावः ॥ ३४९॥ 15 गुणही गुणरयणायरेसु, जइ कुणइ तुल्लमप्पाणं । सुतवसिणो य हीलइ, सम्मत्तं पेलवं तस्स ॥३५१॥ 5 10 ओसन्नया अबोही य पवयणउब्भावणा य बोहिफलं । ओसन्नो विवरं पिहु, पवयणउब्भावणापरमो ॥३५०॥ अवसन्नता अवमग्नता इहलोक एव परिभूतता, परलोके च अबोधिर्जिनधर्माऽसंपत्तिर्भगवदाज्ञा- 20 विराधकत्वात् । यतः प्रवचनोद्भावनैव चस्याऽवधारणार्थत्वात्, बोधिफलं कारणे कार्योपचारात्, सैव बोधिरूपं कार्यमित्यर्थः । प्रवचनोद्भावना तु संविग्नैरेव क्रियते । दुष्करतदनुष्ठानदर्शनेन प्रैवचनश्लाघोत्पत्तेः । तदिदं सर्वावसन्नानाश्रित्योक्तं देशतश्चावसन्नोपि वरं प्रधानः, स हि आत्मनः कर्मपरतन्त्रतां बुध्यमानः परेषां च तां प्रकटयन् स्वयं वादलब्धिव्याख्यानादिभिः पृथौ विस्तीर्णायां प्रवचनोद्भावनायां सुसाधुगुणप्रकाशनेन जिनशासनोन्नतौ परमः प्रधान इति समासः ॥३५०॥ व्यतिरेकमाह गुणहीनश्चरणादिशून्य गुणरत्नाकरैरिति तृतीयार्थे सप्तमी सुसाधुभिर्यदि करोति तुल्यमात्मानं 'वयमपि सुसाधव' इति लोकमध्ये ख्यापयति । सुतपस्विनश्च हीलयति 'मायाविनः खल्वेते लोकप्रतारका' इत्यादिना १. पूरित: - A चारणात् - C। २. संपुच्छणयाच्छणं - A । ३. प्रवचनश्लाघोपपत्तेः KH | 25
SR No.022274
Book TitleUpdeshmala
Original Sutra AuthorN/A
AuthorKirtiyashsuri
PublisherSanmarg Prakashan
Publication Year2013
Total Pages564
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy