________________
४२४
[कर्णिकासमन्विता उपदेशमाला । गाथा-३४५-३४८] ननु यथागममुत्सर्ग एव केवलं सेवनीयस्तर्हि अपवादस्य क्वाऽवकाश इत्याह
जायम्मि देहसंदेहयम्मि, जयणाए किंचि सेविज्जा।
अह पुण सज्जो य निरुज्जमो य तो संजमो कत्तो ॥३४५॥ जाते देहसन्देहे प्राणान्तकारिणि व्यसने, यतनया पञ्चकपरिहाण्यादिकया किञ्चिदनेषणीयादि5 कमल्पसावा सेवेत । अथ पुनरिति पक्षान्तरद्योतकः, सज्जः शक्तो नीरोगो वा तथाऽपि निरुद्यमश्च सति सामर्थ्य शिथिलः साधुरिति गम्यते । ततस्तस्य संयमः कुतो ? नैव भगवदाज्ञापराङ्मुखत्वादिति ॥
अथ य उत्सर्गकरुचिरेवमाह-उत्सर्ग एव आगमाभिप्रायस्तथा चोक्तम्"कारणपडिसेवा वि ह सावज्जा निच्छा अकरणिज्जा । बहुसो वियारइत्ता अ साहणिज्जेस कज्जेसु ॥१॥ [नि.भा./४५९] जइ वि हु समणुण्णाया तहवि य दोसे ण वज्जणे दिट्ठो ।
दढधम्मया हु एवं ण य भिक्खुणिसेवणिद्दयया" ॥२॥ [नि.भा./४६० ] इत्यादि ॥३४५॥ ततश्च रोगातङ्कादौ कारणेऽपि नाऽपवादः सेव्य इति, तं प्रत्याह
मा कुणउ जइ तिगिच्छं, अहियासेऊण जइ तर सम्म ।
अहियासिंतस्स पुणो, जइ से जोगा न हायंति ॥३४६॥ 15 मा कार्षीद्यतिश्चिकित्सां रोगप्रतिक्रियां कर्मक्षयसाहाय्यहेतुत्वाद्रोगाणाम् । तदतिसहनस्य परीषहजय
रूपत्वात् । यदि किमित्याह अध्यासयितुम् अधिसोढुं तत्पीडां क्षन्तुं, यदि तरति शक्नोति सम्यग् वैक्लव्यं विना धृतिबलात् । अतिसहमानस्य पुनर्यदि से तस्य साधोः संहननाभावाद् योगाः प्रत्युपेक्षणादयो व्यापारा न हीयन्ते न हानि गच्छन्ति । तद्धानौ तु चिकित्साऽपि क्रियतामेवेति भावः ॥३४६॥
एवं च साधूनां च श्रावकाणां च कीदृशान् साधून् प्रति किं विधेयमिति विषयविभागमाह20
निच्चं पवयणसोहाकराण, चरणुज्जयाण साहूणं ।
संविग्गविहारीणं, सव्वपयत्तेण कायव्वं ॥३४७॥ नित्यं प्रवचनशोभाकराणां शासनमण्डनानां चरणोधतानाम् अप्रमादिनां साधूनां संविग्नविहारिणां मोक्षाभिलाषुकतया विहरणशीलानां सर्वप्रयत्नेन परमादरेण कर्त्तव्यं वैयावृत्त्यादिकमिति शेषः ॥३४७॥ तथा
हीणस्स वि सुद्धपरूवगस्स नाणाहियस्स कायव्वं । 25
जणचित्तग्गहणत्थं करेंति लिंगावसेसे वि ॥३४८॥ हीनस्यापि चारित्रापेक्षया न्यूनस्याऽपि, शुद्धप्ररूपकस्य यथावदागमार्थं व्याचक्षाणस्य ज्ञानाधि-कस्य कर्त्तव्यं वैयावृत्त्यमिति पूर्ववत् । तथा-जनचित्तग्रहणार्थं लोकरञ्जनानिमित्तं- मा भूत् 'परस्परमप्येते मत्सरिण' इति प्रवादात्प्रवचनमालिन्यमिति । तदवज्ञादर्शनाच्छेषलोकोऽपि तदवज्ञया मा भूत् पातकभाजनमिति वा
कारणेन कुर्वन्ति सुसाधवः सुश्रावकाश्च लिङ्गावशेषेऽपि पार्श्वस्थादिविषयमपि यदुचितमिति पूर्ववत् । इत्थं 30 चैतदङ्गीकर्तव्यमेव । यतः
१. केवलः - K, B | २. चिगित्सं - C, B चिकित्सं - A तिगित्सं - L।