SearchBrowseAboutContactDonate
Page Preview
Page 466
Loading...
Download File
Download File
Page Text
________________ ४२३ [कर्णिकासमन्विता उपदेशमाला । गाथा-३४०-३४४] स्वाध्याय इति गतम् । अथ विनयद्वारमधिकृत्याह विणओ सासणे मूलं, विणीओ संजओ भवे । विणयाओ विप्पमुक्कस्स कओ धम्मो को तवो ? ॥३४१॥ शिष्यन्ते जीवाः अनेनेति शासनं द्वादशाङ्गं तस्मिन्, विनयो मूलम्, यदाहुः-"मूलाउ खंधप्पभवो दुम्मस्स" [ द.वै./९-२-१] इत्यादि । अतो विनीतः संयतो भवेत् । विनयाद्विप्रमुक्तस्य कुतो धर्मः ? 5 कुतस्तपो ? निर्मूलत्वादिति ॥३४१॥ तथा विणओ आवहइ सिरिं, लहइ विणीओ जसं च कित्तिं च । न कयाइ दुव्विणीओ, सकज्जसिद्धि समाणेइ ॥३४२॥ विनीयते अनेनाऽष्टविधं कर्मेति विनय आवहति प्रापयति, श्रियं लक्ष्मी लभते विनीतः पुरुषो यशश्च मानभटनिराकरणविक्रमोत्थं श्लाघनं कीर्ति च पुण्यभाजनमयमित्येवंरूपां स्तुतिं च। विपक्षे बाधामाह-न कदाचित् 10 दुविनीतः स्वकार्यसिद्धिम् आत्मार्थनिष्पत्ति समानयति संप्राप्नोति विनयं विना तदुपायाभावादिति ॥३४२॥ विनयानन्तरमथ तपोद्वारमधिकृतम् । तच्च 'मनोवाक्कायनियमनं तप' इति न्यायात् सर्वमिदं समित्यादि तप एव तथाऽपि प्रायोऽनशनादिकमेव तद् बहुजनख्यातं तथाविधं च देहद्रोहरूपं दुर्विदग्धजनोपहास्यं मा भूदित्याह जह जह खमइ सरीरं, धुवजोगा जह जहा न हायति । कम्मक्खओ य विउलो, विवित्तया इंदियदमो य ॥३४३॥ 15 यथा यथा क्षमते शरीरं ध्रुवयोगा नित्यकृत्यव्यापाराः प्रत्युपेक्षणादयो यथा यथा न हीयन्ते हानिमधिगच्छन्ति तथा तपः कार्यमिति अधिकृतमेवात्राऽध्याहार्यम् । तथा च नेदं तपो दुःखरूपं मन्तव्यम्, नारकाणां महादुःखित्वान्महातपोधनत्वावाप्तेः, समसुखदुःखानां च योगिनां विपर्ययसिद्धेः । किं तर्हि ? क्षायोपशमिकत्वाद्देहमनोबाधाविरहतो विधानाच्च क्वचिदीषद्देहबाधासम्भवेऽपि बाह्याधिचिकित्सातुल्यत्वात्तस्य मन:प्रमोदहेतुत्वाद् रत्नचट्टवदित्यलं विस्तरेण । एतत् तपश्चैवं कुर्वतां कर्मक्षयश्च विपुलो 20 भवति। तथा विविक्तता देहाद्यन्यत्वभावना इन्द्रियदमश्च अक्षनिग्रह इति ॥३४३।। अथ तपोद्वारानन्तरं क्रमप्राप्तं शक्तिद्वारं व्यतिरेकद्वारेण व्याचष्टे जइ ता असक्कणिज्जं, न तरसि काऊण तो इमं कीस । अप्पायत्तं न कुणसि संजमजयणं जईजोग्गं ॥३४४॥ यदि तावदशकनीयमशक्यं प्रतिमाऽऽतापनादिकं न तरसि कर्तुं संहननादिवैकल्यान्न शक्नोषि विधातुं 25 तत इमां किमिति केन हेतुना आत्मायत्तां स्वाधीनां न करोषि संयमयतनामनन्तरोक्ता समित्यादिपदेषु यथाशक्ति विधेयप्रतिषेध्यविधानप्रतिषेधरूपामित्यर्थः, यतियोग्यामद्यश्वीनसाधुभिरपि सति विवेके कर्तु शक्यतयोचितामिति भावः ॥३४४॥ १. रत्नचटितवद् - KH रत्नवट्टवद् H रनवट्टवद् - CI
SR No.022274
Book TitleUpdeshmala
Original Sutra AuthorN/A
AuthorKirtiyashsuri
PublisherSanmarg Prakashan
Publication Year2013
Total Pages564
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy