________________
5
10
४२२
[ कर्णिकासमन्विता उपदेशमाला । गाथा - ३३७-३४० ] अन्तराणि अवकाशास्तानि । तथा स्तनान्तराणि कुचान्तरालभागान् दृष्ट्वा अवलोक्य संहरति भास्करादिव निवर्त्तयति, ततो गुह्यादिभ्यो, दृष्टिं महानर्थहेतुत्वात्, तथा न च बध्नाति दृष्ट्या दृष्टिं स्त्रीसम्बन्धिन्या दृष्ट्या स्वदृष्टिं न मीलयतीत्यर्थः । यदुक्तम्
स्त्रीति नामापि संह्लादि विकरोत्येव मानसम् ।
किं पुनर्दर्शनं तस्या विलासोल्लासितभ्रुवः ॥१॥ [ ] इति ।
स्यादेतत् अस्य प्रकरणस्य सिद्धान्तोद्धाररूपत्वात्तस्य च परमपुरुषप्रणीतवाक्यमयतया, स्वतः प्रामाण्यात् तद् बलेनैव शेषवचसां प्रतिष्ठाऽवाप्तेः प्रद्योतनवत् स्वपरप्रद्योतकत्वात्, न युक्तस्तत्समर्थनार्थं सूक्तान्तरोपन्यास इति - एवमेवैतत् केवलं मार्गानुसारिणां सर्वेषामपि समानैव मतिरितिदर्शनार्थत्वाददोषः । अनेनैव चाऽभिप्रायेण आचारविवरणादौ भगवद्भिः श्रीशीलसूरिप्रभृतिभिरपि सूक्तानि शतशः सुष्ठुक्तानीति । क्रमप्राप्तमथ स्वाध्यायद्वारं विवृणोति
सज्झाएण पसत्थं, झाणं जाणइ य सव्वपरमत्थं । सज्झाए वट्टंतो, खणे खणे जाइ वेरग्गं ॥३३८॥
स्वाध्यायेन वाचनादिना क्रियमाणेन, प्रशस्तं धर्म- शुक्लमयं ध्यानं भवति । जानाति च तद्बलेन सर्वपरमार्थं विश्वस्याऽपि रहस्यम् । स्वाध्याये वर्त्तमानः क्षणे क्षणे याति वैराग्यं रागोरगस्तम्भन15 मन्त्ररूपत्वात्तस्येति ॥ ३३८ ॥
सर्वपरमार्थज्ञानमेव व्याचष्टे
उड्डुमहतिरियनरया, जोइसवेमाणिया य सिद्धी य ।
सव्वो लोगालोगो, सज्झायविउस्स पच्चक्खो ॥ ३३९॥
ऊर्ध्वमिति सर्वेषामहमिन्द्रतयैव तत्रोपपातात् तात्स्थ्यात्तद्व्यपदेशेन ऊर्ध्वशब्दाभिधेया ग्रैवेयकाऽनुत्तर20 निवासिनो देवविशेषाः । अध इति च सर्वेऽपि नारकाः तिर्यञ्चः एकेन्द्रियादयः पञ्चेन्द्रियान्ताः । नरजा यथास्वं नरेभ्य एव जाता नरजा मनुष्याः कर्माकर्मजादयः । न पुनर्यथाहुलौकिका "एकस्यैव कस्यचिन्मुखबाहूरुपयो जाता मनुष्या" [ ] इति । तथा ज्योतिष्काश्चन्द्रार्कादयः । वैमानिकाः सौधर्मनिवास्यादयः । चशब्दसूचिता भुवनपतयो व्यन्तराश्च सामान्यतो विशेषतश्च चतस्रो गतीरभिधाय पञ्चमीं गतिमाह - सिद्धिश्च मुक्तिः । चशब्दात्तत्तत्कारणानि मिथ्यात्वादिरत्नत्रयाद्याऽऽ सेवनरूपा हेयोपादेया हेतवश्च, किं बहुना ? सर्वो लोकालोकः 25 स्वाध्यायविदः प्रत्यक्षः तदुपयुक्तो हि मुनिः सर्वानप्यर्थान् साक्षादिव पश्यतीति ॥३३९॥
व्यतिरेकमाह
जो निच्चकालतवसंजमोज्जओ न वि करेइ सज्झायं ।
अलसं सुहसीलजणं, न वि तं ठावेइ साहुपए ॥ ३४० ॥
यो नित्यकालं तपःसंयमोद्यतोऽपि अपिशब्दस्य व्यस्तसम्बन्धतया न करोति स्वाध्यायम् । अत एव 30 अलसं स्वाध्याये निरुत्साहम् । तत एव सुखशीलजनं सातलम्पटलोकतया प्रतीतम्, नाऽपि नैव तं स्थापयति रोपयति साधुपदे संयतत्वप्रतिष्ठायां श्रमणसङ्घ इति कर्तृपदस्य गम्यत्वादिति भावः ||३४०||