________________
४१८
[कर्णिकासमन्विता उपदेशमाला । गाथा-३३३] अथो सत्त्वाधिको दत्त्वा राज्यं तत्तनुजन्मने । स्वयं संयमसाम्राज्यं सोऽग्रहीद् गुरुसन्निधौ ॥२०॥ एकादशाङ्गपारीणः स धुरीणस्तपोभृताम् । अरीणो निर्वृतेरध्वन्यध्वनीनोऽभवन्मुनिः ॥२१॥ साधुसङ्घाटकोऽन्येधुरवन्तीतः समागतः । तेनाऽनुयुक्तो निर्विघ्नमन्यतः सर्वतोऽभ्यधात् ॥२२॥ किन्तु राज्ञः सुतस्तत्र सौवस्तिकसुतान्वितः । पाखण्डिनः सुसाधूंश्च दुर्विदग्धः स बाधते ॥२३॥ तन्निशम्य गुरोराज्ञां शेखरीकृत्य कृत्यवित् । स्वयं सागरचन्द्रोऽगादवन्ती प्रत्यमर्षणः ॥२४॥ विश्रान्तस्तत्र कुत्रापि साधूनामाश्रमे मुनिः । तेभ्यः साम्भोगिकेभ्योऽपि स्वं जगादात्मलब्धिकम् ॥२५॥ कनिष्ठं स्थापनासद्यालोकनिष्ठं स कञ्चन । मुनि सह समादाय निर्ययौ किल चर्यया ॥२६॥ ज्ञात्वाऽऽलयं तयोस्तस्माद्दुःशिक्षितकुमारयोः । बालं निवर्त्य तत्रैव स्वयं मुनिपतिर्ययौ ॥२७॥ हहाऽयं किमिहाऽऽयात इत्युक्तः स्त्रीजनैः शनैः । बधिरः किल तत्रोच्चैर्धर्मलाभयति स्म सः ॥२८॥ कुमारावथ तं दृष्ट्वाऽऽरोप्य सौधोर्श्वभूमिकाम् । द्वारं बद्ध्वोचतुः प्रीतौ नृत्य भट्टारकेति तौ ॥२९॥ तालं वादयितुं नाऽलं युवां नृत्तं क्व तं विना । तेनेत्युक्तौ जगदतुस्तर्हि युध्यस्व भिक्षुक ! ॥३०॥ नियुद्धनिपुणेनैतौ यौवनादेव दुर्मदौ । मर्माभिघातिना तेनोद्वान्तफेनौ कृतौ क्षणात् ॥३१॥ समुत्तीर्याऽथ निःसृत्य पतद्ग्रहपरिग्रहः । बहिरुद्यानमभ्येत्य तस्थौ प्रतिमया मुनिः ॥३२॥
क्रमतोऽथ मतो राज्ञा वृत्तान्तोऽयमनुप्लवैः । सोऽन्विष्टो वसतौ तैश्च शिष्टोऽतिथिरिति स्फुटम् ॥३३॥ 15 मार्गद्भिवलोक्याऽथ मुनिचन्द्रमहीभुजे । उद्यानेऽस्तीति विज्ञप्तः स जनैर्मुनिपुङ्गवः ॥३४॥
आगत्य प्रत्यभिज्ञाय महाराजो महामुनिम् । न नाम विनयेनैव ननाम व्रीडयाऽपि सः ॥३५॥ धर्मलाभाशिषं दत्त्वा ऋषिराभाषते स्म तम् । चन्द्रावतंसपुत्रस्य तव युक्तं किमीदृशम् ॥३६॥ शक्रादप्यधिकः पृथ्वी पृथ्वीशक्रः शशास यः । न तत्सुतस्य किं वत्स ! पाकशासनतापि ते ॥३७॥
राजन् ! राज्यरथस्येतौ न्यायधौ धुरन्धरौ । तव नेतृत्वमेतर्हि गर्हितं तदचिन्तनात् ॥३८॥ 20 अथाऽवादि सुधावादि वसुधापतिना वचः । दुश्चेष्टितं क्षमस्वेति खेदं भृत्ये मयि त्यज ॥३९॥
कृतकृत्योऽस्मि धन्योऽस्मि धनिकेनाऽधुना त्वया । यदेवं शिक्षितः साक्षाद् गुरुणा करुणात्मना ॥४०॥ कुमारयोरपि महान् कश्चिदभ्युदयोदयः । यावेतौ भगवच्चित्ते शासनीयाविति स्थितौ ॥४१॥ स्रस्तं तदस्थिसंस्थानं यच्चैतन्यं च किञ्चन । प्रतिमल्लोऽस्ति कस्तादृक् तत्प्रत्यानेतुमीश्वरः ॥४२॥ स्वयं दयोदयोद्भूताऽनुशयातिशयो मुनिः । विज्ञप्य किल राज्ञेति नीतः पार्वे तयोर्जगौ ॥४३॥ आभ्यां तपःक्रमो जैनो निजैनोव्रातघातकः । सेव्यते यदि राजेन्द्र ! तदा यच्छामि जीवितम् ॥४४॥ तथाऽभ्युपगते ताभ्यां देहमर्मविदामुना । दीक्षितौ प्रगुणीकृत्य भवपाताच्च रक्षितौ ॥४५॥ मुनिश्रेष्ठः पितुर्येष्ठः शास्त्रेऽत्येकाग्रमानसः । शिक्षा राजसुतः सम्यक् करोति क्षत्रियो हि सः ॥४६॥
१. भिक्षुकः - A, B, C, D, K, H, L | २. रविलोक्याथ - C । ३. स्तु - B, A, D, H, KI टि. 1. अरीणः - अनुद्विग्नः । 2. अनुप्लव:-दासः तैः । 3. निज एनस् (पापम्) व्रात घातकः इति सन्धिविच्छेदः ।