________________
४१७
[कर्णिकासमन्विता उपदेशमाला । गाथा-३३२-३३३] धारणार्थत्वात् आसादयन्नेव भ्रमति पर्यटति अनन्तं कालम् । ततः किमित्याह ? तस्मात् तुशब्दस्य व्यवहितसम्बन्धस्यावधारणार्थत्वात् मदान् विवर्जयेदेव परिहरेदेवेति ॥३३२॥ किञ्च
सुट्ट वि जई जयंतो, जाइमयाईसु मज्जई जो उ ।
सो मेयज्जरिसि जहा, हरिएसबलो व्व परिहाइ ॥३३३॥ सुष्ठ्वपि सातिशयमपि यतिः साधुर्यतमानस्तपोऽनुष्ठानादौ उद्युक्तो जातिमदादिषु जलावर्तेषु मज्जति ब्रुडति तान् वा विषयीकृत्य माद्यति मत्तो भवति यस्तुशब्दात् सद्भिरपि तद्धेतुभिः स मेतार्यऋषिर्यथा हरिकेशबलः प्रागुक्तस्वरूपो वा परिहीयते जात्यादेहीसमाप्नोतीति ॥३३३॥ तत्र मेतार्योपाख्यानमेवम्
[मेतार्योपाख्यानम् ॥] पुरा चन्द्रावतंसस्य राज्यसम्पदमात्मजः । लेभे सागरचन्द्राख्यः साक्षादिव दिवस्पतिः ॥१॥
10 स नत्वोचेऽन्यदा मातुः सपत्नीं प्रियदर्शनाम् । प्रीणाति लोकम्पृणाऽपि श्रीर्न तातं विनाऽद्य मे ॥२॥ तन्मातर्गुणचन्द्राय श्रियं दत्त्वानुजन्मने । दीक्षामहं जिघृक्षामि यदि त्वमनुमन्यसे ॥३॥ तयोचे वत्स ! धन्यस्त्वं तस्यैवाऽसि पितुः सुतः । असावसारसंसारविरक्तौ यस्य ते रसः ॥४॥ राज्यभारो महान किन्तु बालः सोऽयं तवाऽनुजः । किशोरक: कशो न स्याद्यग्यः साङग्रामिके रथे ॥५॥ तयेति बोधितो मात्रा निर्विकल्पमनाः स्वयम् । राजर्षिः पालयामास राज्यं स प्राज्यवैभवः ॥६॥ 15 क्रमात्परायवर्धिष्णुमहद्धिमवलोक्य तम् । स्त्रीभावसुलभामीणूंमुवाह प्रियदर्शना ॥७॥ अन्यस्याऽपि कलेर्मूलात् पोषिका एव योषिकाः । सापत्नकस्य किं वाच्यं यस्य ता जन्मभूमयः ॥८॥ यो ब्रह्मा विष्टपस्याऽस्य स्रष्टेति स्तूयते जनैः । सोऽपि जानाति न स्त्रीणां चित्तानि चरितानि च ॥९॥ तदा यदाददे राज्यं दीयमानं तया पुरा । भेजे तदर्थं सा द्वेषं निर्दोषे तत्र भूपतौ ॥१०॥ वाह्यालीलीलया खेलत्यन्यदाऽवनिवासवे । दास्या पौरोगवः प्रेषीत् प्रातराशाय मोदकम् ॥११॥ वात्सल्यादिव तत्पाणेः पाणिनादाय तं पुनः । विमाता विषलिप्तेन सम्यग् सम्भाव्य चार्पयत् ॥१२॥ तदा वाह्यालिकेलीभिर्लालसेऽवनिवासवे । उभावभूतामभ्यर्णे विनीतौ तत्सुतौ च तौ ॥१३॥ आगत्याऽदत्त सा दासी मोदकं मेदिनीभुजे । क्षुधार्त्तयोरनुजयोविभुर्न बुभुजे स्वयम् ॥१४॥ राजा तत्त्वमजानानस्तं द्विधाकृत्य मोदकम् । द्विधाहीनोऽपि सस्नेहं द्विधा बान्धवयोर्ददौ ॥१५॥ विषादिनौ विषावेगाद्विवर्णों वीक्ष्य तावुभौ । विषादिना नृपेणाऽपि प्रापि वैवर्ण्यमात्मना ॥१६॥ 25 निर्देशान्नृपतेः कोशादथाऽऽनीय भिषग्वरैः । सुवर्णं पायितौ जात्यं प्रगुणौ तौ बभूवतुः ॥१७॥ वृद्धान्तःपुरमेत्याऽथ तां विमातरमातुरः । राजाऽऽह साहसं पापे ! धिक् किमर्थमिदं कृतम् ॥१८॥ स्तोकेन परलोको मे न क्षतो भाग्यरक्षितः । कलङ्किनि ! कुतो नात्तं दत्तं राज्यं पुरा मया ॥१९॥
20
टि. 1. पराय (त्रि०) उत्तमः । 2. पौरोगवः - सूदः । 3. द्विधाहीन: - शङ्कारहितः ।