SearchBrowseAboutContactDonate
Page Preview
Page 459
Loading...
Download File
Download File
Page Text
________________ ४१६ [कर्णिकासमन्विता उपदेशमाला । गाथा-३२९-३३२] तत्किम् एतानि इन्द्रियाणि घातनीयान्येवेति असूयकान् शिष्यान् प्रत्याह निहयाणिहयाणि य इंदियाणि घाएह णं पयत्तेणं । अहियत्थे निहयाई, हियकज्जे पूयणिज्जाइं ॥३२९॥ निहतानिहतानीति इन्द्रियाणि घातयत ननु प्रयत्नेन णं नन्वर्थे, ननु इत्याक्षेपे प्रयत्नेन प्रकृष्टचेत:5 प्रणिधानेन इन्द्रियाणि अक्षाणि निहतानि अनिहतानीति-घातयत निहतानि च इष्टानिष्टेषु स्वविषयेषु तत्कार्य रागद्वेषाऽनुत्पादेन प्रलयं नीतानि, अनिहतानि च स्वरूपसद्भावात् स्वविषयग्रहणाच्च स्पष्टतया विद्यमानानि इति द्वन्द्वे तानि निहताऽनिहतानि इत्येवंरूपाणि यथा भवन्ति तथा घातयतेत्यर्थः । अत्र यत्नस्य इन्द्रियाण्याश्रित्य नाशनोल्लासनोभयात्मकत्वं प्रकर्षार्थः । तथा चोक्तम् - 'न शक्यं रूपमद्रष्टुं चक्षुर्गोचरमागतम् । रागद्वेषौ तु यौ तत्र तौ बुधः परिवर्जयेत्" ॥१॥[ ] 10 अत्रैवाऽर्थे विषयभेदेन विधिमाह-अहितेऽर्थे स्वविषये रागद्वेषविधानलक्षणे प्रवर्त्तमानानि निहतानि निरुद्धानि सन्ति । हितकार्ये जिनबिम्बावलोकन-भगवदागमश्रवणादौ प्रवर्त्तमानानि सन्ति पूजनीयानि अर्हणीयानि भवन्तीति विशद एव गाथार्थः । अस्याः सङ्ग्रह एवम् "निहतानिहतानीति हताक्षाणि प्रयत्नतः । अहितेऽर्थे हतान्येवं हिते पूज्यानि धीमताम्" ॥२॥ [ ] इति । इयं च गाथा मूलवृत्तिकृता विस्तरेणाऽनेकधा व्याख्याता । तदर्थिना च तवृत्तिद्वारेणातिगम्भीरमतिः स 15 एव भगवान् पर्युपास्य इति ॥३२९॥ इन्द्रियाणि व्याख्याय अधिकृतं मदद्वारमाह जाइ-कुल-रूव-बल-सुय-तवलाभिस्सरियअट्ठमयमत्तो । एयाई चिय बंधइ, असुहाई बहुं च संसारे ॥३३०॥ जातिाह्मणादिः कुलमुग्रादि रूपं शरीरसौन्दर्यं बलं वीर्यं श्रुतमागमाधिगमः तपोऽनशनादि लाभ 20 इष्टार्थप्राप्तिः ऐश्वर्यं प्रभुत्वं तेषां द्वन्द्वे तान्येव [अष्ट] मदाश्चित्तोन्मादास्तैर्मत्तो घूर्णितः प्राणी एतान्येव बध्नाति ___ अर्जयति अशुभानि क्लिष्टानि 'बहु'ति क्रियाविशेषणाद्बहुशोऽनन्तगुणानि चशब्दोऽध्यवसायतारतम्याद्वैचित्र्यदर्शनार्थः, संसारे भवे इति ॥३३०॥ तथाहि जाईए उत्तमाए, कुले पहाणम्मि रूवमिस्सरियं । बलविज्जाए तवेण य, लाभमएणं व जो खिसे ॥३३१॥ ___ जात्या उत्तमया, कुले प्रधाने सति, रूपमैश्वर्यमाश्रित्येति गम्यम् । बलेन सह या विद्या तया, तपसा च लाभमदेन वा यो मन्दधीः खिसति परं हीलयेत् यदुत-अहमुत्तमगुणोऽयं तु अधम इत्यादि ॥३३१॥ स किमित्याह संसारमणवयग्गं, नीयट्ठाणाइं पावमाणो य । भमइ अणंतं कालं, तम्हा उ मए विवज्जिज्जा ॥३३२॥ संसारमनपवर्गम् अप्राप्तापरपारं नीचस्थानान्यधमस्थानानि जात्यादीनि प्राप्नुवन् चशब्दस्याव 25 30
SR No.022274
Book TitleUpdeshmala
Original Sutra AuthorN/A
AuthorKirtiyashsuri
PublisherSanmarg Prakashan
Publication Year2013
Total Pages564
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy