________________
[ कणिकासमन्विता उपदेशमाला । गाथा-३२७-३२८ ] गौरवद्वारं व्याख्याय इन्द्रियद्वारं व्याचष्टे
यतः
४१५
तवकुलच्छायाभंसो, पंडिच्चप्फंसणा अणिट्ठपहो । वसणाणि रणमुहाणि य इंदियवसगा अणुहवंति ॥ ३२७॥
तपोऽनशनादि, कुलमुग्रादि, छाया लोकमध्ये उन्नतिरेतेषां भ्रंशोऽधः पतनम् इन्द्रियवशगानां स्यात् ।
"जितं दशार्णभद्रेण हारितं हरिणा च यत् ।
हेतुरत्र हृषीकाणि निर्जितान्यजितानि च ॥१॥ [ ] इति ॥३२७॥ इन्द्रियाणामेव जयोपायमाह
5
उग्रं तपः कपटतामभिलम्भयन्ति कीर्त्त्यज्ज्वलानि च कुलानि कलङ्कयन्ति ।
अन्तं नयन्ति परमामपि च प्रतिष्ठां किं वा न हीन्द्रियजिताः किल हारयन्ति ॥ १॥ [ ][ वसन्ततिलकावृत्तम् ] तथा पाण्डित्यपुंसना विद्वत्तालोपः । यतः
“शब्दागमाधिगमवान्निगमेष्वधीती सत्तर्ककर्कशमतिः कवितासु वेधाः ।
सिद्धान्तधाम सकलासु कलासु दक्षोऽप्यक्षैर्जितः पठितमूर्खतयाऽनु वाच्यः " ॥१॥ [] तथा अनिष्टो रत्नत्रयात्मकान्मोक्षमार्गादिष्टादितरः पन्था मार्गः । तच्चोक्तम्“दिवसरजनिसारैः सारितं पक्षगेहम्, समयफलकमेतन्मण्डितं भूतधात्र्याम् ।
इह हि जयति कश्चिन्मोक्षमक्षैर्विधेयैरधिगतमपि चाऽन्ये विप्लुतैर्हारयन्ति" ॥१॥ [] तथा व्यसनानि नानाविधा विपदः । यतः
"हस्ती स्पर्शनतस्तिमिश्च रसनाद् घ्राणात्फणी दर्शनात्, व्यामूढः शलभो मृगः श्रवणतः प्रापुर्विपत्तिं पराम् । इत्येकैकमपि क्व नाक्षमजितं स्यात्पञ्चतायाः पदम्
पञ्चानां तु किमुच्यते ध्रुवममी पञ्चापि पञ्चेषवः " ॥१॥ [ ]
तथा रणमुखानि च सङ्ग्रामद्वाराणि विनाशकारणानि चशब्दान्निःशेषदोषानिन्द्रियवशगा अनुभवन्ति ।
तथाहि
20
10
15
सद्देसु न रज्जिज्जा, रूवं दड्ठुं पुणो न विक्खिज्जा । गंधे से फासे अमुच्छिओ उज्जमेज्ज मुणी ॥ ३२८ ॥
शब्देषु काकली-गीत-वेणु-वीणादिप्रभवेषु न रज्येत न रक्तः स्यात् । रूपं कान्तं कथञ्चित् दृष्ट्वा पुनस्तद्वीक्षणलोलतया न वीक्षेत आदित एव भास्करादिव दृष्टिं प्रतिसंहरेत्, न भूयः पश्येत् । गन्धे रसे च स्पर्शे सुन्दरे मूच्छितोऽगृद्धश्चशब्दादसुन्दरे अद्विष्टश्च उद्यच्छेत् आत्मानुष्ठाननिष्ठो भवेत् । मुनिस्तस्यैवोपदेशार्हत्वादिति ॥ ३२८ ॥
१. प्रसवेषु - LI
25