SearchBrowseAboutContactDonate
Page Preview
Page 457
Loading...
Download File
Download File
Page Text
________________ ४१४ [कर्णिकासमन्विता उपदेशमाला । गाथा-३२२-३२६] एयं पि नाम नाऊण, मुज्झियव्वं ति नूण जीवस्स । फेडेऊण न तीरइ, अइबलिओ कम्मसंघाओ ॥३२२॥ एतदपि कषाय-नोकषायनिग्रहपरमनन्तरोक्तम् अपिशब्दाद् वक्ष्यमाणं च, नामेति प्रसिद्धं भगवद्वाचा ज्ञात्वा मोहितव्यमिति अनेन जीवेन यन्मूढेन भूयते तन्नूनं निश्चितं जीवस्य भ्रंशयितुं न शक्यते 5 अतिबलीयान् कर्मसङ्घातः । स हि ज्ञाततत्त्वमपि सत्त्वं बलादकार्ये प्रवर्त्तयति । किमन्यदत्र कृत्यं केवलं वयमिह द्रष्टार उपदेष्टारश्चेति ॥३२२॥ ___ अथ मूलद्वारगाथायां गौरवाणि व्याचिख्यासुौरववतः पूर्वं लिङ्गमाह जह जह बहुस्सुओ सम्मओ य सीसगणसंपरिवुडो य । अवि णिच्छिओ य समए, तह तह सिद्धंतपडणीओ ॥३२३॥ 10 यथा यथा बहुश्रुतः पारगतागमपारङ्गममतिः । संमतश्च बहुमतो लोकानां शिष्यगणसंपरिवृतश्च विनेयजनसम्यक्परिच्छदश्च । अपीति सम्भावनायां निश्चितश्च निष्टङ्कितपरमार्थश्च समये सदागमे । तथा तथाऽसौ सिद्धान्तप्रत्यनीको वस्तुस्थित्या ऋद्ध्यादिगौरवगृद्ध्या सिद्धान्तलाघवापादनादिति ॥३२३॥ तथा सिद्धान्तप्रत्यनीकश्च किमभिमन्यते इत्याह पवराई वत्थपायासणोवगरणाई एस विहवो मे । ___ अवि य महाजणनेया, अहं ति अह इड्ढिगारविओ ॥३२४॥ _ 'प्रवराणि वस्त्र-पात्राऽऽसनोपकरणानि एष विभवो मे' स इत्यभिमन्यते, अयं ऋद्ध्युपचयो मम । अपि च महाजननेता प्रधानलोकप्रभुरहम् इति अथैष एवम् ऋद्ध्या पूर्वाप्तया उत्सेकेन अप्राप्तप्रार्थनया च गौरवमात्मनो निबिडकर्मदलिकग्रहणेन गुरुत्वम् , तद्विद्यते यस्य स ऋद्धिगौरविक इति ॥३२४॥ रसगौरवमाह__ अरसं विरसं लूहं, जहोववन्नं च नेच्छए भत्तं । निद्धाणि पेसलाणि य मग्गइ रसगारवे गिद्धो ॥३२५॥ अरसं हिङ्ग्वादिभिरसंस्कृतं विरसं पुराणौदनादि रूक्षं स्नेहहीनं यथोपपन्नं च निरुपाधिलब्ध्या सम्पन्नं नेच्छति भक्तं भोजनम् । किन्तु स्निग्धानि प्रभूतस्नेहानि पेशलानि मनोज्ञानि मार्गयति अभिलषति रसगौरवे सति गृद्धो लौल्याध्मात इति ॥३२५॥ 25 अथ सातगौरवमाह सुस्सूसई सरीरं, सयणासणवाहणापसंगपरो । सायागारवगुरुओ, दुक्खस्स न देइ अप्पाणं ॥३२६॥ शुश्रूषति प्रतिक्षणं संस्कुरुते शरीरं वपुः, शयनं-तूल्यादि, आसनं-मसूरकादि, वाहनं-यानं, तेषु आ सामस्त्येन निष्कारणं परिभोगः प्रसङ्गो-गाढमासक्तिस्तत्र तत्परः शयनासनवाहनाप्रसङ्गपरः सातविषयं 30 गौरवं तेन गुरुकः दुःखस्य न ददाति आत्मानं दुःखद्वेषीति भावः ॥३२६॥ १. पूर्वापर्याप्तया - D, K । २. सातविषये - C, L सातविषयो - D, KI
SR No.022274
Book TitleUpdeshmala
Original Sutra AuthorN/A
AuthorKirtiyashsuri
PublisherSanmarg Prakashan
Publication Year2013
Total Pages564
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy