________________
[ कर्णिकासमन्विता उपदेशमाला । गाथा - ३०८-३१३] अथामी लोभपर्याया यथा
लोभो अइसंचयसीलया य किलिट्ठत्तणं अइममत्तं । कप्पन्नमपरिभोगो, नट्ठविणट्टे य आगल्लं ॥ ३०८ ॥
लोभोऽतिसञ्चयशीलता च क्लिष्टत्वमतिममत्वं कार्पण्यमपरिभोगः । नष्टे गते विनष्टेऽप्राप्ते, क्षितमृतादौ अकल्यता शोकमूर्च्छादिवशात् हृदयस्फोटादिभिर्मान्द्यमिति ॥३०८॥
मुच्छा अइबहुधणलोभया य तब्भावभावणा य सया । बोलेंति महाघोरे, जरमरणमहासमुद्दम्मि ॥ ३०९ ॥
मूर्च्छा अतिबहुधनलोभता च तद्भावभावनापि च तदर्थित्वं लौल्यातिरेकेण तदेकतानध्यानतया चित्तस्य तन्मयता । एतानि पूर्वोक्तहेतोरेव लोभशब्देनोच्यन्ते । तानि च बोलयन्ति निमज्जयन्ति महाघोरे अतिरौद्रे जरामरणमहासमुद्रे जीवमिति ॥ ३०९ ॥
यस्तु एतान् कषायान् जयति तस्य महिमानमाह
एएस जो न वट्टिज्जा, तेण अप्पा जहट्ठिओ नाओ ।
मणुयाण माणणिज्जो, देवाण वि देवयं होज्जा ॥ ३१० ॥
जो भासुरं भुयंगं, पयंडदाढाविसं विघट्टेइ ।
तत्तो च्चिय तस्संतो, रोसभुयंगोवमाणमिणं ॥३११॥
४११
एतेषु क्रोधादिषु यो न वर्त्तते तेन आत्मा यथावस्थितः कर्मव्यतिरेकी अनन्तदर्शनज्ञानवीर्यानन्दात्मको ज्ञातः । अत एवासौ मनुजानां माननीयः पूजनीयो, देवानामपि शक्रादीनां देवता भवेत् 15 पूज्यतमत्वादिति ॥ ३१०॥
भूयः क्रोधदोषमाह
अथ मानमाह
यो मन्दधीर्भासुरं रौद्रं भुजङ्गमं सर्पं प्रचण्डदंष्ट्राविषम् उत्कटाशीविषं विघट्टयति करकिलिञ्चादिना 20 चालयति । तत एव भुजङ्गात् तस्यान्तो विनाशो भवति रोषभुजङ्गोपमानमिदम् क्रोधसर्पोपमैषा क्रोधमुदीरयत एवमेव विनाश इति ॥ ३११ ॥
जो आगलेइ मत्तं, कयंतकालोवमं वणगइंदं ।
सो तेणं चिय छुज्जइ, माणगइंदेण इत्थुवमा ॥ ३१२॥
य आकलयति गृह्णाति मत्तं मदोद्धतं कृतान्तकालोपमं यमकालोपमं वनगजेन्द्रम् अरण्यकरिणम्, तेनैव करिणा क्षुद्यते चूर्ण्यते, मानगजेन्द्रेण एषा उपमा । मानमपि कुर्वन्नेवं प्रलीयते इति ॥३१२॥
मायामाह
विसवल्लिमहागहणं, जो पविसइ साणुवायफरिसविसं । सो अचिरेण विणस्सइ, माया विसवल्लिगहणसमा ॥३१३॥
१. आकल्यता C आकल्यं L । २. विनाशयति - C |
5
10
स
25
30