SearchBrowseAboutContactDonate
Page Preview
Page 455
Loading...
Download File
Download File
Page Text
________________ ४१२ [कर्णिकासमन्विता उपदेशमाला । गाथा-३१३-३१७] विषवल्लीनां महागहनं बृहद्गह्वरं यः प्रविशति । किम्भूतं-सानुवातस्पर्शविषम् अनुकूलो वातोऽनुवातः, सह तेनेति सानुवातं स्पर्शविषं यत्र तत्तथा । गन्धेन स्पर्शेन च यन्मारयतीति भावः । स प्रविशन्नचिरेण विनश्यति । एवं माया विषवल्लिगहनसमा तद्वन्मारणात्मकत्वादिति ॥३१३।। लोभमाह घोरे भयागरे सागरम्मि तिमि-मगर-गाहपउरम्मि । जो पविसइ सो पविसइ, लोभमहासागरे भीमे ॥३१४॥ घोरे रौद्रे भयाकरे भयक्षेत्रे सागरे, किंभूते तिमयो मत्स्या मकराः प्रसिद्धास्तत्प्रधाना ग्राहास्तदन्ये जलचरभेदास्तैः प्रचुरे यः प्रविशति स प्रविशति लोभमहासागरे भीमे तस्याऽप्यनन्तप्रबलदुःखग्राहाकुलत्वादिति ॥३१४॥ एवमपि सति कर्मपारवश्यात् प्राणिनो दोषेभ्यो नोपरमन्त इत्याह- . गुणदोसबहुविसेसं, पयं पयं जाणिऊण नीसेसं । दोसेसु जणो न विरज्जइ, त्ति कम्माण अहिगारो ॥३१५॥ गुण-दोषाणां ज्ञानादि-क्रोधादीनां बहुर्विशेषो यथाक्रमं शिव-भवयोः कारणरूपो यस्मिन् पदे तत् गुणदोषबहुविशेषं पदं पदं वीप्सया सकलमपि ज्ञानादीनां शिवहेतुत्वस्य क्रोधादीनां भवहेतुत्वस्य प्रतिपादकं भगवदागमवाक्यं ज्ञात्वा निःशेषं सम्पूर्ण तथाऽपि दोषेभ्यः पापानुष्ठानेभ्यो जनो न विरज्यते न निवर्त्तते, इति 15 स एष कर्मणाम् अधिकारो वश इति ॥३१५॥ तदेवं प्रतिद्वारगाथोक्ता । क्रोधो मानो माया लोभ इति चत्वारो व्याख्याताः । सम्प्रति हासं व्याचष्टे अट्टहासकेलीकिलत्तणं हासखेड्डजमगरुइं । कंदप्पं उवहसणं, परस्स न करंति अणगारा ॥३१६॥ विवृत्तस्य मुखस्य सशब्दं हसनम् अट्टहासः । केलिना क्रीडया किरति विक्षेपं करोति स तथा तस्य 20 भावः केलीकिलत्वम् । हासखेड्डुं कौत्कुच्यकरणम् । यमकं काव्यालङ्कारभेदस्तत्र रुचिं काव्यमन्तरेणाऽपि यमकान्तर्जल्पजल्पाकताम् उपलक्षणत्वात् सर्वामपि सरागकाव्यरुचिम्, कन्दर्पं सरागप्रहासनं उपहसनम् उत्प्रासनं तदेतत्सर्वं परस्य न कुर्वन्ति अनगाराः साधव इति ॥३१६॥ अथ रति साहूणं अप्परई, ससरीरपलोयणा तवे अई। 25 सुत्थियवन्नो अइपहरिसं च नत्थी सुसाहूणं ॥३१७॥ साधूनामात्मनि रतिरासक्तिः शब्दादीनां शुभानाम् आदानरूपा, अशुभानां हानरूपा च स्वारसिकी प्रवृत्तिः । स्वशरीरप्रलोकना अत्यादरेण आत्मदेहस्य बहुमानतो वीक्षणम् । अत एव तपसि अनशनादौ अरतिः शरीरवर्णाद्युत्कर्षरसिको हि तपसि न रज्यते । सुस्थितोऽहमिति वर्णः स्वश्लाघा सुस्थितवर्णोऽतिप्रहर्षश्च महत्यपि लाभादौ हर्षकारणे; एतदात्मरत्यादिकं सर्वमपि नास्ति सुसाधूनाम्, साधवो भूत्वा एतानि 30 परिहरन्तः सुसाधवो भवन्तीति ज्ञापनार्थं साधूनामित्युक्त्वाऽपि भूयः सुसाधूनामित्युक्तमिति ॥३१७॥ १. भवशिवयो - C, B, K । २. थोक्तं - C, K, LI
SR No.022274
Book TitleUpdeshmala
Original Sutra AuthorN/A
AuthorKirtiyashsuri
PublisherSanmarg Prakashan
Publication Year2013
Total Pages564
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy